अथवा योगिनामेव कुले भवति धीमतां । |
सर्वकर्मसन्यासी श्रद्धालुर्योगाभ्यासकोऽसंपूर्णे वैराग्ये सम्यग्भोगजिहासाभावात् पूर्वोपचितभोगवासनाप्रादुर्भावे विषयकामनावान् भवति । अन्यो वैराग्ये पूर्णो सम्यग्भोगजिहासया निष्कामो भवति । तयोर्मध्ये विषयकामनावानात्मतत्त्वविचारतो वेदान्तश्रवणादीनां सामथ्र्यात् पुण्यकृतामाचरिताश्वमेघादिपुण्यकार्याणां लोकानर्चिरादिमार्गेण ब्रह्मलोकान्, एकस्मिन्नपि लोके तत्तत्पुण्यकार्योचितफलानुभवयोग्यस्थानभेदापेक्षया बहुवचनं, प्राप्य शाश्वतीस्समास्तत्रोषित्वा भोगक्षये शुचीनां शिष्टाचारसंपन्नानामुभयकुलपवित्राणां, अन्येषां शौचाभावादित्यर्थः, श्रीमतां गेहेऽभिजायते जनिमेति । द्वितीयं प्रत्याह, अथवेति । श्रद्धावैराग्यादिकल्याणगुणो- पेतोऽपरिपक्वविचारो यदि मरणसमये निस्पृहो ब्रह्मतत्त्वस्य विचारात् श्रद्धावैराग्या- दिकल्याणगुणाधिक्ये संपूर्णभोगजिहासया अथवा अथशब्द आनन्तर्यार्थकः, वा शब्दोऽवधारणार्थः, अथैव देहपातानन्तरोत्तरक्षणमेव पुण्यकृल्लोकप्राप्तिमन्तरा धीमतामात्मतत्त्वविचारकुशलानां योगिनां ब्रह्मविद्यावतां कुले भवति जायते । श्रीमतां गेहे जन्मापेक्षयात्र विशेषमाह, तदिति । तत् वैराग्यमोक्षेच्छावेगानुरूपं ब्रह्मनिष्टानामेव कुले लोकान्तरजन्मनिमित्तकालव्यवधानमन्तरा यज्जन्म तत् दुर्लभम् महतस्तपसः फलं, हि शुकादीनामिवेति प्रसिद्धार्थकः ॥ ४८ ॥
ब्रह्मनिरतानां कुले जन्मनो दौर्लभ्यं द्वाभ्यां विशदयति, तत्रेति ।
तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्। |
तत्र योगिनां कुले तं पौर्वदैहिकं पूर्वजन्मभवं बुद्धिसंयोगं लभते तत्त्वविचारशीलां बुद्धिमाप्नोति । तत्कुलीनप्रवृत्तेः सदा दर्शनसत्त्वात् । पूर्वजन्मसंस्का-