पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
१३
कल्याणपीयूषव्याख्यासमेता।

 तद्भोगाय तेषां प्राज्ञानां भोगाय सुखदुःखानुभवाय तमः प्रधानप्रकृतेः तमोगुणाधिकायाः प्रकृतेरीश्वराज्ञया “स ईक्षत लोकान्नुसृजा इती” (ऐत १-१) त्याकारिकया सिसृक्षया वियत्पवनतेजोऽम्बुभुवः पञ्चभूतानि जज्ञिरे जातानि ॥

 अत्रेदं बोध्यं । सत्त्वरजस्तमोगुणात्मिका प्रकृतिः । तत्र रजस्तमोऽमिश्रिता शुद्धसत्वा माया। सा चेश्वरोपाधिः। ताभ्यां मिश्रिता । अविशुद्धा मलिनसत्वा अविद्या । सा च जीवोपाधिः। त्रिगुणानां मिश्रणे न्यूनाधिकभेदेनाविद्याया बहूनि विकाराणि। यदा तमोगुणस्याधिक्यं तदा तम:प्रधाना ततो भूतभौतिकसृष्टिरिति॥ १८॥

 भौतिकसृष्टावादौ ज्ञानेन्द्रियसृष्टिमाह सत्त्वेति ।

सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ॥ १९ ॥

 तेषां वियदादीनां पञ्चभिस्सत्त्वांशैः श्रोत्रत्वगक्षिरसनघ्राणाख्यं शब्द- स्पर्शरूपरसगन्धग्राहकं धीन्द्रियपञ्चकं ज्ञानजनकेन्द्रियपञ्चकं क्रमादुपजायते । वियदादीनां सत्त्वांशानां प्रत्येकमसाधारणकार्याणि ज्ञानेन्द्रियाणीति भावः ॥१९॥

 भूतपञ्चकसत्त्वांशसमष्टिकार्यभूतमन्तःकरणं विवृणोति, तैरिति ।

तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्विधा।
मनो विमर्शरूपं स्यादूबुद्धिस्स्यान्निश्चयात्मिका ॥ २०॥

 तैस्सर्वैर्वियदादिपञ्चकस्य समष्टिभूतैस्सत्वांशैर्मिळितैरन्तःकरणमुपजायते । अन्तः भवं करणं ज्ञानसाधनमित्यन्तःकरणम् । तत् वृत्तिभेदेन द्विधा भवति मनोबुद्धोति । तत्र मनो विवृणोति, मन इति। विमर्शरूपं परीक्षा विमर्शः स्थाणुरयं पुरुषो वेत्याकारिका संशयात्मिका वृत्तिः; सैव स्वरूपं यस्य तत् विमर्शरूपं मनस्स्यात् । बुद्धिस्वरूपं विवृणोति, बुद्धिरिति । निश्चयात्मिका विमर्शानन्तरं नाऽयं पुरुषः स्थाणुरेवेत्याकारकविषयाध्यवसायो निश्चयः;स एव आत्मा स्वरूपं यस्यास्सा निश्चयात्मिका बुद्धिस्स्यात् ॥ २० ॥