इति चेदल्पमेवोक्तं धीरष्येवं स्वदेहतः ॥ ३४ ॥ |
धीभावभावित्वात् यावत्कालं धियो भावो विद्यते तावत्कालमेव चिदाभासस्य विद्यमानत्वात् आभासो धियः पृथक् नास्तीति चेदल्पमेव त्वयोक्तम् । तव वचः केवलमतिफल्गु इत्यर्थः । प्रतिबंध्या समाधत्ते, धीरिति । यद्येवं तर्हि देहसमकालवर्तिनी धीरपि स्वदेहतो एवं भिन्न न स्यात् ॥ ३४ ॥
ननु देहधियोर्भिन्नत्वे शास्त्रम् प्रमाणमस्ति । न तथा चिदाभासधियोरित्याशंक्य चिदाभासस्यापि शास्त्रे तथा श्रूयमाणत्वात् तस्यापि पार्थक्यमभ्युपगन्तव्यमित्याह, देह इति ॥
देहे मृतेऽपि बुद्धिश्चेच्छास्त्रादस्ति तथा सति । |
देहे मृतेऽपि "स विज्ञानो भवती" त्यादिशास्त्रात् बुद्धिरस्तीत्यतः तयोर्भेदकथनं युक्तमेवेति वदसि चेत् अङ्गीकृत्य सिद्धान्ती समाधत्ते, तथेति । तथा देहधियोर्भोदे शास्त्रात् प्रतिपादिते सति बुद्धेरन्यश्चिदाभासः ऐतरेयोक्त प्रवशश्रुतिषु श्रुतः ॥३५॥
ननु लोके बुद्धियुक्तस्य चैत्रादेर्गृहादौ प्रवेशो दृश्यते न तु तद्रहितस्य लोष्टादेः। तद्वत् बुद्धेः पृथग्भूतस्य चिदाभासस्य प्रवेशो नैव घटते; किंतु तत्स हितस्यैव । एवं च बुद्धेः पार्थक्यं चिदाभासस्य कथं घटते इत्याशंक्य परिहरति, धीरिति ।
धीयुक्तस्य प्रवेशश्चेन्नैतरेये धियः पृथक् । |
धीयुक्तस्य चिदाभसस्यैव प्रवेश इत्युच्यते'चेन्न, धियः पृथक् व्यतिरेकेणात्मा प्रवेशं संकल्प्य सीमानं विदार्यैतया द्वारा प्रविष्ट इत्यैतरेये गीयते । श्रुतिबलात् यथा देहपातानन्तरमपि बुद्धेः सत्त्वमभ्युपेयते तथैव श्रुतिबलात् बुद्धिरहितस्यात्मनोऽपि प्रवेशोऽभ्युपेय इति भावः ॥३ ॥
"स ईक्षत कथं न्विदं मदृते स्यादिति" । "स एतमेव सीमानं ।