पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३४५
कल्याणपीयूषव्याख्यासमेता

 दृष्टान्तार्थं दार्ष्टान्तिके समन्वेति, चिदाभासेति ।

चिदाभासविशिष्टानां तथानेकधियामसौ ।
सन्थिं धियामभावं च भासयन् प्रविविच्यताम् ॥ ३ ॥

 तथा चिदाभासविशिष्टानामनेकधियां घटपटादिज्ञेयवस्त्वाकाराकारिता- नेकान्तःकरणवृत्तीनां सन्धिं वृत्तिशून्यावस्थां जाग्रति धियां तादृग्बुद्धिवृत्तीनां सुषुप्तावभानं च भासयन् असौ कूटस्थश्चिदाभासात्प्रविविच्यताम् प्रविभज्यताम् । कूटस्थो बुद्धौ चिदाभासस्वरूपेण प्रतिबिंबितो बुद्धिवृत्तीनां मध्ये उदासीनावस्थां जाग्रति प्रकाशयति, सुषुप्तौ बुद्धिवृत्तीनामभावं च प्रकाशयतीति भावः ॥३॥

दृष्टान्तमुखेन चिदाभासब्रह्मणोर्भेदप्रदर्शनम् ।

 देहस्यान्तर्भासमानयोः कूटस्थचिदाभासयोर्विवेचनासौकर्याय बाह्यप्रपंचे चिदाभासब्रह्मणोर्विभिन्नतां दृष्टान्तमुखेन दर्शयति, घटेति ।

घटैकाकारधीस्था चिद्घटमेवावभासयेत् ।
घटस्य ज्ञातता ब्रह्मचैतन्येनावभासते ॥ ४ ॥

 घटैकाकारधीस्था घटैकाकारमापन्ना या धीस्तस्यां स्थिता या चिच्चिदाभासः सा घटमेवावभासयेत् । घटस्य ज्ञातता ज्ञातो घट इति व्यवहारहेतुः ज्ञातता ब्रह्मचैतन्येन घटकल्पनाधिष्ठानेनावभासते । अयं घट इत्यत्र घटो ज्ञान विषयः । स च चिदाभासावभासितः । ज्ञातो घट इत्यत्र घटनिष्ठा ज्ञातता विषयः । स च ब्रह्मचैतन्यभासित इति भावः । अत्रेदं बोध्यम् । अज्ञातो घटः, अयं घटः, ज्ञातो घट इति ज्ञानानि घटविषये क्रमशो जायन्ते । तत्र घटाज्ञानदशायां ब्रह्मचैतन्येनैव 'अज्ञातो घट’ इति ज्ञानमुत्पद्यते । अज्ञानस्यापि ज्ञानविशेषात्मकत्वेन सर्वस्य ज्ञानस्य साक्ष्यधीनत्वात् । ततः प्रतिफलितचिदाभासविशिष्टबुद्धिवृत्त्या घटाकराकारितया ‘अयं घट ' इति ज्ञानमुत्पद्यते । न च केवलया धीवृत्त्यैव तदिति वाच्यम् । धियो जडत्वेन ज्ञानजनकत्वासंभवात् । न वा केवलचैतन्येनेति वाच्यम् । तस्याविकारिणो बुद्धिप्रतिफलनं विना विषयाकाराकारितत्वेन ज्ञानजननासंभवात्। अतश्चिदाभासभास्यं तत् । अयं घट इति ज्ञानं विषयधर्मः । न

44