धन्योऽहं धन्योऽहं ब्रह्मनन्दो विभाति मे स्पष्टम् ॥२९२॥ |
अहं धन्यः कृतार्थः । आदरातिशयद्योतनाय द्विरुक्ति:। धन्यत्वे कारणमाह, नित्यमिति । नित्यं स्वात्मानं प्रत्यगात्मानमञ्जसा अपरोक्षतया वेद्मि साक्षात्करोमि । यद्वा नित्यं त्रिकालाबाधितं स्वात्मानं स्वश्चासावात्मा च स्वात्मा, स्वशब्देन त्वंपदार्थ उच्यते, आत्मशब्देन “आत्मा वा इदमेक एवाग्र आसी" (ऐ.१. १.१.)दित्युक्ततच्छब्दार्थः परं ब्रह्मोच्यते । स्वात्मेत्युक्तेस्तयोस्सामानाधिकरण्येनाभेदः सूचितः। समानमन्यत् । साक्षात्कारफलमाह, ब्रह्मेति । ब्रह्मानन्दः ब्रह्मभिन्नो य आनन्दः “आनन्दं बह्मणो विद्व"निति (तै. २-४) श्रुतेः मे स्पष्टं विभाति ॥२९२॥
एवंरूपा तुष्टिर्नकेवलेष्टप्राप्तनिमित्ता किंत्वनिष्टप्रहाणप्रभवापीत्याह, धन्य इति।
धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । |
धन्योऽहं यथा व्याख्यातपूर्वम्। सांसारिकं दुःखमद्य विद्यया तस्योपमर्दनेन न वीक्षे । तत्र कारणमाह, स्वस्येति । स्वस्याज्ञानमनाद्यपि काऽपि पलायितं । नष्टम् ॥२९३ ॥
एवंरूपां धन्यतां स्तौति, धन्येति ।
धन्योऽहं धन्योऽहं कर्तव्यं न विद्यते किंचित् । |
धन्यतायाः कारणान्तरमाह, कर्तव्येति। कृतकृत्यत्वादितः परं मे कर्तव्यं किचिदपि न विद्यते । कृतकृत्यत्वादद्य यत् प्राप्तव्यं तत्सर्वं मे संपन्नं पुष्कलतया प्राप्तम् । अतोऽहं धन्य इति भावः ॥ २९४ ॥
किं तत् प्राप्तव्यमद्य सर्वम् संपन्नमित्यत, आह, धन्य इति ।
धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके । |