यतां नाम । तेन प्रतीतिमात्रशरीरकेण स्वतोऽसत्येन जगता बोधस्य बाधो न शक्यते । उक्तमर्थं दृष्टान्तेन विशदयति, जीवन्निति । यथा लोके आखुर्मूषकः जीवन मार्जारं न हन्ति । मृतो मरणानन्तरं तं कथं हन्यात् ? स्वसत्ताकालेऽपि मार्जालं हन्तुमसमर्थो मूषकः स्वरूपतो नष्टो भूत्वा कथं तं हन्यात् ? तद्वत्प्रकृते जगतस्सत्यत्वेन ज्ञानदशायामपि शुद्धचित्तस्य श्रवणादिना जायमानं बोधं प्रतिहन्तुमक्षमं जगन्मिथ्यात्वेन ज्ञानावस्थायां कथं बोधं बाधितुमिष्टे इति तात्पर्यम्॥२७९॥
इदमेवार्थं प्रमाणान्तरेण प्रपञ्चयति, अपीति ।
अपि पाशुपतास्त्रेण विद्धश्चेन्न ममार यः । |
पाशुपतास्त्रेणापि पशुपतिदेवताकेनास्त्रेणामोघेनापि विद्धश्चेदाहतोऽपि यो न ममार स निष्फलेषुविनुन्नाङ्गः न विद्यते फलं पुंखं शल्यं यस्य तेन धाराशून्यकुंठितेनेषुणा विदारितशरीरः नञ्क्ष्यतीति नाशमुपैतीत्यत्रास्मिन् स्थले का प्रमा किं प्रमाणं विश्वासयोग्यमित्यर्थः ॥ २८०॥
दृर्ष्टान्तार्थम् दार्ष्टान्तिके समन्वेति, आदाविति ।
आदावविद्यया चित्रै: स्वकार्यैर्जृम्भमाणया । |
आदौ विद्योदयात् प्राक् चित्रैः स्वकार्यै: प्रमातृत्वभोक्तृत्वादिविविधरूपैर्जृम्भमाणया विवर्धमानयाऽविद्यया बोधो युद्ध्वाऽजयत् । स एव बोधोऽद्याभ्यासपाटवेन सुदृढो निस्सपत्रं स्थितो मायाकार्येण देहाद्यध्यासेन कथंः बाध्यताम् ॥ २८१ ॥
एतदर्थमेव रूपकेण प्रपञ्चयति, तिष्ठन्त्विति ।
तिष्टन्त्वज्ञानतत्कार्यशवा बोधेन मारिताः । |
बोधेन युद्धे मारिता अज्ञानतत्कार्यशवा तिष्ठन्तु । अनेनाविद्यायास्तदा