पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
[तत्त्वविवेके
पञ्चदशी

 अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्, वेदाध्ययनपराणां समूहे विद्यमानः कुमारःतत्कर्तृकं यद्ध्ययनं वेदपठनं तस्य शब्दवत्, यथा तत् ध्वनिः पार्थक्येन न श्रूयते किन्तु सामान्यतःतथा परमानन्दस्य भानेऽपि स्वप्रकाशरूपतया भानेऽपि प्रतिबन्धेन विषयानन्दात् पार्थक्येन अभानं युज्यते । रागादिप्रतिबन्धेन निरति- शयानन्दस्वरूपं परं ब्रह्म भासमानमपि न विशेषतस्साक्षात्क्रियत इति भावः ॥१२॥

 प्रतिबन्धस्वरूपमाह, प्रतिबन्ध इति ।

प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि,
तन्निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३ ॥


 अस्ति भातीत्येवंरूपेण व्यवहारार्हवस्तुनि यद्वस्तु तादृग्व्यवहारमर्हति तस्मिन्वस्तुनि अस्तित्वप्रकाशत्वाभ्यां व्यवहार्ये वस्तुनि तत् व्यवहारं निरस्य, विरुद्धस्य नास्ति न भातीत्येवंरूपस्य विरुद्धस्य तस्य व्यवहारस्योत्पादनं जननं प्रतिबन्ध इत्युच्यते ॥ १३॥

प्रतिबन्धस्वरूपमुक्त्वा दृष्टान्तदार्ष्टान्तिकयोस्तस्यहेतुं प्रदर्शयति,तस्येति।

तस्य हेतुस्समानाभिहारः पुत्रध्वनिश्रुतौ ।
इहाऽनादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४ ॥

 पुत्रध्वनिश्रुतौ दृष्टान्ते तस्य पार्थक्येन श्रवणप्रतिबन्धस्य हेतुः कारणं समानाभिहारः अन्यैस्सह पठनम् । इह दार्ष्टान्तिके व्यामोहैकनिबन्धनं व्यामोहानां मिथ्याभूतवस्तुज्ञानानां एकनिबन्धनं मुख्यं कारणं। अनादिरविद्या अज्ञानं प्रतिबन्धस्य हेतुरित्यर्थः । भासमानमप्यानन्दस्वरूपमनाद्यविद्यवशान्न विशेषतः परिज्ञायत इति भावः ॥ १४ ॥

 स्वस्वरूपाऽभिव्यक्तिप्रतिबन्धहेतुभूताया अनाद्यविद्याया व्युत्पिपादयिषया तन्मूलभूतां प्रकृतिं लक्षयन् तद्विभागमाह चिदानन्देति ।