स्पष्टा पदयोजना । दशमो नद्यां क्षालितः इति भ्रमज्ञानेन रुदत आप्त वाक्येन अहमेव दशम इति ज्ञाने सति भ्रमनिवृत्तिरेव न तु तन्निमित्तकशिरस्ताडन पीडा ॥ २४७ ॥
ज्ञानोत्पत्तेरनन्तरमपि भ्रान्तिकार्यस्य कादाचित्कानुभवं दशमोऽहमिति स्थले विवृणोति, दशमेति ।
दशमामृतिलाभेन जातो हर्षों व्रणव्यथाम् । |
दशमामृतिलाभेन दशमो न मृत इति ज्ञानेन जातो हर्षों व्रणव्यथां पूर्वं मरणज्ञानकाले जातेन दुःखेन कृतशिरस्ताडनादिसंजनितव्रणव्यथां यथा तिरोधत्ते अनुभवगोचरतां नयति तथा मुक्तिलाभो ब्रह्माहमस्मीति ज्ञानलाभः प्रारब्धदुःखितां तिरोधत्ते । जीवन्मुक्तिकाले सत्यापि दुःखे तस्य तिरोभावान्न ज्ञान्यनुभवगोचरतेति भावः ॥ २४८ ॥
तत्त्वज्ञांनेन भ्रान्तिनिवृत्तिरिति वस्तुस्थितिर्नतु नियम इत्युक्तम् । तथा सति कदाचिदध्यासः प्रसज्येत । तस्मिम्श्च सति दुःखानुभवो दुर्निवार एव स्यादित्याशंक्याह, व्रतेति ।
व्रताभावाद्यथाऽध्यासस्तथा भूयो विविच्यताम् । |
सुलभा पदयोजना । ब्रह्माहमस्मीतिज्ञानस्य दार्ढ्याभावात् अहं सुखो अहं दुःखीत्याकारकभ्रान्तेरुदये तदपाकरणाय दृढज्ञानोदयावधि देहेन्द्रियादीनात्मनो विविच्यतामित्यर्थः ॥ २४९ ॥
अनिवार्यस्यारब्धस्यानुभव एव प्रतीकार इति दशमदृष्टान्तपूर्वकमाह, शमयतीति ।
शमयत्यौषधेनायं दशमः स्वं व्रणं यथा। |