सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३२५
कल्याणपीयूषव्याख्यासमेता

परे ब्रह्मणि प्रणहितमना भूत्वा ब्रह्म वेति । नेतरत् । एवं तदेकचित्ततया । साक्षिणमनुसृत्य स एव भवतीति भावः ॥२४१॥

 एवं ब्रह्मभवनेन चिदाभासत्वहानिः प्राप्ता । कथं स्वनाशाय तत्प्रवृत्ति- रित्याशंक्याधिकफलप्राप्तौ स्वनाशाय प्रवर्तन्ते इत्यत्र दृष्टान्तमाह, देवत्वेति ।

देवत्वकामा ह्यग्न्यादौ प्रविशन्ति यथा तथा ।
साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति ॥ २४२ ॥

 स्पष्टा पदयोजना । अग्न्यादौ, आदिशब्देन भृगुजलसंपातमहाप्रस्थानानि गृह्यन्ते । कुमरिलभट्टस्याग्निप्रवेशः पांडवानां महाप्रस्थानगमनं च सुविदिते एव । तथैव साक्षित्वेनावशेषाय स्वविनाशं चिदाभासो वाञ्छति ॥२४२॥

 ननु ब्रह्माभावापत्त्या चिदाभासत्वेऽपगतेऽपि कथं ज्ञानिनामपि जीवत्व- व्यवहारो दृश्यत इत्याशंक्याह, यावदिति ।

यावत्स्वदेहदाहं स नरत्वं नैव मुञ्चति ।
यावदारब्धदेहं स्यान्नाभासत्वविमोचनं ॥ २४३॥

 सोऽग्निप्रविष्टो जनः । तस्य स्वदेहदाहावधि नरत्वव्यवहारः । तथैव शिष्ट कर्मबलेनारब्धदेहपातावधि चिदाभासत्वव्यवहार इति भावः । सुगमा पदयोजना ॥ २४३ ॥

 नन्वाज्ञाननिवृत्तौ तत्कृतभ्रान्तिमूलकभोक्तृत्वादीनामपि निवृत्तिरित्युक्तं । किंतु न तथा दृश्यते । ज्ञानिष्वप्यहं कर्ता अहं भोक्तेत्यादिव्यवहारस्य प्रतीय- मानत्वादित्याशंक्य समाधातुं रज्जुसर्पदृष्टान्तं विवृणोति, रज्विति ।

रज्जुज्ञानेऽपि कम्पादिः शनरेवोपशाम्यति ।
पुनर्मन्दान्धकारे सा रज्जुः क्षिप्तोरगी भवेत् ॥ २४४ ॥

 रज्जुज्ञाने सर्पभ्रमापगमेऽपि सर्पभ्रान्तिकृतः कंपादिः कंपस्वेदादिः रेवोपशाम्यति । न तु भ्रमनाशोत्तरक्षणे । तस्मिन् कंपादौ विद्यमाने सति मन्दान्धकारे मन्दो नातितीव्रो योऽन्धकारस्तस्मिन् सा रज्जुः क्षिप्ता पुनरुरगी