एवं दृष्टान्तार्थं दार्ष्टान्तिके योजयति, इतीति ।
इति न्यायेन सर्वस्माद्भोग्यजाताद्विरक्तधीः । |
न्यायेन पुराणोक्तमार्गेण । भोक्तरि आत्मनि । एनमात्मानं बुभुत्सते बोद्धुमिच्छति । स्पष्टमन्यत् ॥ २०४ ॥
फलमाह, स्रगिति ।
स्रक्चंदनवधूवस्त्रसुवर्णादिषु पामरः । |
स्पष्टं पूर्वार्धम् । तद्वद्विद्वान् भोक्तरि आत्मनि न प्रमाद्यति प्रमादं नोपैति । किंतु स्वस्वरूपं चिन्तयत्येव ।।२०५॥
एवभात्मविचारे श्रद्धा कर्तव्येत्याह,काव्येति ।
काव्यनाटकतर्कादिमभ्यस्यति निरन्तरम् । |
मुलभा पदयोजना ॥२०६॥
एवमैहिकप्रतिष्ठकामनया प्रवृत्तिं दृष्टान्ततयोक्चाऽऽमुष्मिककामनया प्रवृत्तिमपि दृष्टान्तयति, जपेति ।
जपयागोपासनादि कुरुते श्रद्धया यथा ।। |
जपयागोपासनादि जपो गायत्र्यादेः, यागः सोमादिः। उपासना पञ्चाग्निविद्यादे:, स्वर्गादिवाञ्छया, आदिशब्देन ब्रह्मलोकादि भवति । निर्गुणो- पासनायास्तत्फलकत्वात् । स्पष्टमन्यत् ॥२०७॥
अणिमालैश्वर्यकामनया प्रवृत्तिमपि दृष्टान्तयति, चित्तेति ।
चित्तैकाग्र्यम् यथा योगो महायासेन साधयेत् |