पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
[तृप्तिदीप
पञ्चदशी

 स्पष्टोऽर्थः । प्रारब्धमनुरूपं फलं नियच्छति । तत्र प्रवृतेः कारणं स्वेच्छा अनिच्छा परेच्छाचेति त्रिविधम् ॥ १५२॥

 इच्छाप्रारब्धं दर्शयति, अपथ्येति ।

अपथ्यसेविनश्चोरा राजदाररता अपि ।
जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः॥ १५३ ॥

 स्पष्टोऽर्थः । प्रारब्धप्राबल्यादनर्थमपि जानन्निच्छति ॥ १५३॥

 एवं चैतादृशप्रारब्धानुरूपेच्छा सत्यपि ज्ञाने कथमुदेतीति न शंकनीयः। अपरिहार्यत्वादित्याह, नेति ।

न चात्रैतद्धारयितुमीश्वरेणापि शक्यते ।
यत ईश्वर एवाऽह गीतायामर्जुनं प्रति ॥ १५४॥

 स्पष्टोऽर्थः ॥ १५४ ॥

 गीतावाक्यं पठति, सदृशमिति ।

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। १५५॥

 ज्ञानवानपि स्वस्याः प्रकृतेः, "प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारजन्यं वर्तमानजन्मन्युपभोगक्षममदृष्टम्”, तस्यास्सदृशमनुरूपं चेष्टते प्रवर्तते । किमुता- ज्ञानी । तस्मात् भूतानि भवनशीलानि प्राणिकोटयः प्रकृतिं यान्त्यनुगच्छन्ति। तत्र निग्रहः प्रवृत्तेर्निरोधो मयाऽन्येन वा कृतः किं करिष्यति ? निरर्थक इति भावः ॥ १५५ ॥

 प्रारब्धप्रवाहनिरीधनासाध्यतां प्रदर्शितुं पौराणिकं वचनमाह, अवश्यमिति ।

अवश्यं भावि भावानां प्रतीकारो भवेद्यदि ।
तदा दु:खैर्नलिप्येरन्नलरामयुधिष्ठिराः ॥ १५६ ॥

 अवश्यं भाविभावनामनिवार्यतया भवनशीलानां भावानां प्रतीकारः प्रतिक्रिया यदि साध्यो भवेत् तदा नलरामयुधिष्ठिराः दुःखैरद्वितीयैः राज्यभ्रंश