पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
[तृप्तिदीप
पञ्चदशी

विधत्त विपरीताया भावनायाः क्षयाय हि ॥ १०९ ॥

 इत्युक्तिरीत्या श्रुतिस्मृती नित्यं धियो बुद्धेरात्मनि एकाग्रतां अविच्छिन्न ज्ञानधाराकत्वं विधत्ते हि। किमर्थम् ? विपरीताया भावनायाः क्षयाय नाशनाय। एवमेते श्रुतिस्मृती विपरीतभावनापनयनायानवरतमात्मन्यविच्छिन्नज्ञानसंततिमापादयत इत्यर्थः ॥ १०९॥

 देहात्मधियो जगत्सत्यत्वधियश्च विपरीतभावनात्वं समर्थयति, यदिति ।

यद्यथा वर्तते तस्य तत्त्वं हित्वान्यथात्वधीः ।।
विपरीता भावना स्यात्पित्रादावरिधीर्यथा ।। ११० ॥

 यद्वस्तु यथा येन रूपेण वर्तते तस्य वस्तुनस्तत्त्वं तद्रयं हित्वा परित्यज्य अन्यथात्वधीः विपरीतधर्मरूपेण ज्ञानं विपरीता भावना स्यात् अतस्मिन् तद्बुद्धिरिति यावत् । तत्रोदाहरणमाह शत्रुत्वाभाववति पित्रादौ आदिशब्देनान्ये हितैषिणो गृह्यन्ते । अरिधीः शत्रुत्वेन बुद्धिर्यथा ॥ ११०॥

 उक्तलक्षणं प्रकृते योजयति, आत्मेति ।

आत्मा देहादिभिन्नोऽयं मिथ्याभेदं जगत्तयोः ।
देहाद्यात्मत्वसत्यत्वधीर्विपर्ययभावना ॥ १११ ॥

 अयमात्मा देहादिभिन्नः देहादिपंचकोशेभ्यो भिन्नः। इदं जगच्च मिथ्या, तथाऽपि तयोरात्मजगतोर्देहाद्यात्मत्वसत्यत्वधीर्देहादावात्मत्वस्य जगति सत्यत्वस्य च धीः विपर्ययभावनेत्युच्यते । आत्मत्वाभाववति देहादावात्मत्वबुद्धिः, सत्यत्वा भाववति जगति सत्यत्वबुद्धिश्च विपरीतभावना । तस्या अप्यतस्मिन् तदुद्धित्वात्॥१११॥

 विपरीतभावनेयमैकाग्र्यान्निवर्तत इति सामान्यत उक्तमर्थं विशेषेणाह, तत्त्वेति ।

तत्त्वभावनया नश्येत् साऽतो देहातिरिक्तताम् ।
आत्मनो भावयेत्तद्वन्मिथ्यात्वं जगतोऽनिशम् ॥ ११२॥