पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२७३
कल्याणपीयूषव्याख्यासमेता

 एवं ब्रह्म निरूपाधिकमिति न वक्तव्यम्, तस्यापि ब्रह्मत्वबोधस्यापि “अहं ब्रह्मास्मी"ति जीवस्य ब्रह्मरूपताज्ञानस्य सोपाधिविषयत्वतः उपाधिविशिष्ट- विषयकत्वात् । ज्ञानस्य सोपाधिविषयताकत्वम् ज्ञेयस्य सोपाधिकत्वमन्तरा असंभवात् वाक्यजन्यबोधकाले ब्रह्मणः सोपाधिकत्वमवश्यमभ्युपेयम् । तथा च ब्रह्मणः परोक्षत्वे उदाहृतो निरुपाधिकत्वरूपहेतुरसिद्ध इति तात्पर्यम् । अत्र हेतुमाह, यावदिति । विदेहकैवल्यं शरीरपातानन्तरं मुक्तिर्यावत्संभवति तावत्पर्यन्तं शरीरपातावधेरित्यर्थः । जीवस्योपाधेरनिवारणाद्ब्रह्मापि सोपाधिकमेव भवति ॥ ८४ ॥

 एवं सति जीवब्रह्मणोरुपाधेर्द्वैविध्यं कीदृशमित्याशंक्याह,अन्तःकरणेति ।

अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते ।
उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा ॥ ८५ ॥

 जीवभावस्य ब्रह्मातायाश्चोपांधिरन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते भिन्नो भवति । अन्तःकरणसाहित्यं जीवोपाधिः, तद्रहित्यं ब्रह्मोपाधिरिति, यावत् ॥ ८५ ॥

 नन्वन्तःकरणसाहित्यस्य भावरूपत्वाद्युज्यते तस्योपाधित्वम्, कथमभावरूपस्य तद्राहित्यस्योपाधित्वमित्याशम्क्याभावस्याप्युपाधित्वमंगीक्रियतामित्याह, यथेति ।

यथाविधिरुपाधिः स्यात्प्रतिषेधस्तथा न किम् ।
सुवर्णलोहभेदेन श्रृंखलात्वं न भिद्यते ॥ ८६ ॥

 विधिर्भावरूपः, प्रतिषेधोऽभावरूपः, स्पष्टमन्यत् । भावस्यैवोपाधित्वं नाभावस्येति कोऽसौ निर्बन्ध:? उपाधेः स्वरूपं तावत् सतोऽसतो वा कस्यचिदंशस्य संपादकत्वम् । तदन्तःकरणविनिर्मुक्तविक्षेपशक्त्यात्मना स्थिताया मायाया अस्त्येव । अतो विक्षेपशक्तिनाशपर्यन्तं तस्यास्तच्छक्तिरूपेण सत्ताभ्युपगमात् । तावत्पर्यन्तं देहरूपपदार्थस्य संपादकत्वादुपाधिकत्वम्। अत्र दृष्टान्तमाह, सुवर्णेति । श्रृंखलात्वं निगव्ळाबंधस्य पुरुषसंचारनिरोधकत्वं सुवर्णलोहभेदेन न भिद्यते । सुवर्णस्य भावा भावाभ्यां न भिद्यते ॥८६॥

35