पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
[तृप्तिदीप
पञ्चदशी

 मायोपाधिर्जगद्योनिः जगतः सृष्टिस्थितिलयानां कारणभूतः सर्वज्ञत्वादि लक्षणः, आदिशब्देन सर्वशक्तित्वादि गृह्यते, पारोक्ष्यशबलः परोक्षस्वधर्मविशिष्टः , वस्तुतः सत्याद्यात्मकः सच्चिदानंदस्वरूपः परं ब्रह्म तत्त्वमसीति महावाक्ये तत्पदाभिधः तत्पदवाच्यो भवति । अत्र मायोपाधित्वजगद्योनित्वसर्वज्ञत्व- पारोक्ष्यशबलत्वादिर्ब्रह्मणस्तटस्थलक्षणमुच्यते । सत्याध्यात्मकत्वेन स्वरूपलक्षणमभिधीयते । स्वतो निगुणं परं ब्रह्म । मायोपाधित्वाज्जगद्योनित्वसर्वज्ञत्वादिधर्मास्तस्मिन्नारोपिताः॥ ७२॥

लक्षणावृत्या महावाक्यार्थविचारः।।

 एवं तत्त्वमोर्वाक्यार्थमभिधाय वाक्यार्थसिद्धये लक्षणावृत्तिरंगीकार्येत्याह, प्रत्यगिति ।

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुध्येते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ७३ ॥

 यत एकस्यैव परब्रह्मणः प्रत्यक्परोक्षता।अस्मत्प्रत्ययशब्दालंबनतयाऽपरोक्षत्वं तत्पदाभिधेयतया अपरोक्षत्वं सद्वितीयत्वपूर्णता सद्वितीयत्वेन सहिता या पूर्णता सद्वितीयत्वपूर्णत्वे इत्यर्थः । अन्तःकरणसम्भिन्नत्वात्सद्वितीयत्वं, अनन्त मित्यद्वितीयत्वम्,एवं विरुध्येते अनुपपन्ने भवतः । एतेन विरुद्धधर्मविशिष्टयोरसि- पदबोधितमेकत्वमनुपपन्नमिति लक्षणाबीजभूतमुख्यार्थानुपपत्तिर्दर्शिता। तस्मादनुपपत्तेः सत्वादर्थकल्पनायां लक्षणा लक्षणावृत्तिः संप्रवर्तते परिगृह्यते । श्रीभगवत्पादैर्वाक्यवृत्तावेवं लक्षणा निरुक्ता, “मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थे नाविनाभूते प्रतीतिर्लक्षणोच्यते " इति ॥ ७३ ॥

 सा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणेति त्रिधा लोके प्रसिद्धा । अत्र ग्राह्या केत्यत आह, तदिति ।

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ७९ ॥

 तत्वमस्यादिवाक्येषु परिग्राह्य लक्षणा भागलक्षणा यस्यां वाच्यार्थस्यांशत स्त्यागोऽशतं उपादानम् । एष एव जहदजहल्लक्षणेत्यप्युच्यते । जहदजहल्लक्षणांगीकारे