एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२४१
कल्याणपीयूषव्याख्यासमेता
यथा पटे चित्रकारेण रंजितं चित्रं दीपेन प्रकाशितं भवति तथा चैतन्ये माययाऽर्पितं जगच्चित्रं यस्मिन् प्रकरणे प्रकाशितं तदिमं चित्रदीपनामकं प्रकरणं ये बुधा नित्यमनुदिनं मनस्यनुसंदधते ते इंदं जगच्चित्रं पश्यन्तोऽपि पूर्ववदज्ञान दशायामिव न मुह्यन्ति न भ्रान्तिमाप्नुवन्ति ॥ ३९०॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित
जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनानि
गोत्रसमुद्धृतेन लिङ्गनसोमयाजिना विरचितेयं चित्रदीप-
प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥
इति चित्रदीपप्रकरणम् ।
31