भूत्वाऽत्मन्येवात्मानं पश्येदि"ति (मुम्.१.२.१३.) श्रुत्योरितरयोः मोक्षे साक्षात्कारणस्य बोधस्योपकारित्वम् ॥२८१॥
प्रायेण सहभावे कश्चित्प्रत्येकावस्थाने च कारणमाह, त्रय इति ।
त्रयोऽप्यत्यन्तपक्वाश्चैन्महतस्तपसः फलम् । |
पूर्वार्धः स्पष्टः । दुरितेन पूर्वजन्मार्जितेन क्वचिद्यस्मिन् कस्मिन् वा पुरुषे कदाचिद्यदा कदापि वा किंचित्त्रयाणां मध्ये यत्किंचित्प्रतिबध्यते । तेन यस्य प्रतिबंधकं दुरितं तत्र तत्परिहारेणेतरयोद्वयो: स्थितिः । यत्र द्वयोः प्रतिबंधकं दुरितं तत्रेतरस्यावस्थानमिति प्रत्येकावस्थानमपि सिद्धम् ॥ २८२॥
तेषां प्रत्येकमवस्थाने तारतम्येन फलविशेषमाह, वैराग्येति ।
वैराग्योपरती पूर्णे बोधस्तु प्रतिबध्यते । |
यस्य वैराग्योपरती पूर्णे किंतु तत्त्वस्य बोधः दुरितबलेन प्रतिबध्यते निरुध्यते चेत् तस्य मोक्षो नास्ति । किंतु तपोबलाद्ब्रह्मादिपुण्यलोकोऽस्ति । पापपुण्यकृतान् लोकानुषित्वे (गी.६. ९१)ति, स्मृतेः ॥२८३॥
सतीतरयोः प्रतिबद्धयोः फलमाह, पूर्ण इति ।
पूर्णे बोधे तदन्यौ द्वौ प्रतिबद्धौ यदा तदा । |
पूर्वार्धः स्पष्टः । तदा देहपातानन्तरं मोक्षो विनिश्चितः । किंतु दृष्टदुःखं प्रत्यक्षेणानुभूयमानं दुःखं व्यावहारिकं तापत्रयं न नश्यति नोपशाम्यति । जीव न्मुक्तिसुखम्, तत्र नास्तीति भावः ॥ २८४॥
परिपाकावस्थाम् फलमुखेन सार्धश्लोकेन दर्शयति, ब्रह्मेति ।