पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
२१९
कल्याणपीयूषव्याख्यासमेता

 एवमानन्दविज्ञानमयावीश्वरजीवौ तावुभौ मायाधियोर्वंशौ तदुपाधिकौ ।। तदधिष्ठानकूटस्थब्रह्मणी तयोर्जीवेश्वरयोरधिष्ठाने कूटस्थब्रह्मणी जीवस्य कूटस्थ, ईश्वरस्य ब्रह्मचाधिष्ठानमित्यर्थ । सुनिर्मले निरधिष्ठाने बिम्बभूत: कूटस्थो बुद्धौ प्रतिबिंबितस्सन् जीव इत्युच्यते । एवं बिंबभूतं ब्रह्म मायायां प्रतिबिंबितं सदीश्वर इत्युच्यते ॥२२६ ॥

 एवं परिशोधनोपायतया साङ्ख्ययोगमताभ्युपगमवदन्यमताभ्युपगमो ऽप्यंगीकार्यः न तेषु विशेषतो विद्वेषः कार्य इत्याह, एतदिति ।

एतत्कक्षोपयोगेन साङ्ख्ययोगैौ मतौ यदि ।
देहोऽन्नमयकक्षत्वादात्मत्वेनाभ्युपेयताम् ॥ २२७ ॥

 पूर्वार्धः सुगमः।तर्ह्यन्नमयकक्षत्वाद्देहः स्थूलदेह आत्मत्वेनात्मेत्यभ्युपेयताम्। लोकायतिकाद्यैर्यत्प्रतिपादितं मतं तदपि नात्माऽन्नमयकोश इति प्रतिपादनोपयोगित्वात्कक्षान्तरतयाऽङ्गीक्रियताम् । तथा च तेषु द्वेषोऽनुचित एवेति भावः ॥ २२७ ॥

साङ्ख्ययोगयोर्वेदान्तविरोधांशविचारः ।

 साङ्ख्ययोगयोरंशतस्सम्मतिमाह, आत्मेति ।

आत्मभेदो जगत्सत्यमीशोऽन्य इति चेत्त्रयम् ।
त्यज्यते तैस्तदा साङ्ख्ययोगवेदान्तसम्मतिः ॥ २२८ ॥

 आत्मभेद आत्मनानात्वं जगत्सत्यं ईशोऽन्यो जगज्जीवाभ्यामित्यंशत्रयं तैस्साङ्ख्ययोगैर्यदि त्यज्यते तदा साङ्ख्ययोगवेदान्तसम्मतिस्साङ्ख्ययोगवेदान्तानां सामरस्सं भवति ॥ २२८ ॥

 आत्मनानात्वं जगत्सत्यत्वं जगज्जीवेश्वरभेदश्चेति त्रीणि साङ्ख्ययोगयो रद्वैतस्य च सिद्धान्तभेदस्थानानि । अत्र साङ्ख्ययोगयोरपसिद्धान्तप्रदर्शनाय तत्प्रयुक्ता युक्तीरेव स्वपक्षदार्ढ्याय सप्तभिर्विमृश्य निराकुर्वन् तत्रादौ जीवस्यासंगत्वमात्रेण कृतार्थत्वमनुपपन्नमिति प्रतिबंदिसुखेनाह,जीव इति ।