फलस्य न्यूनाधिक्ययोः कारणमाह, यथेति ।
यथा यथोपासते तम् फलमीयुस्तथा तथा । |
तमीश्वरं यथा यथा । यद्यद्भावेनोपासते जनस्तथा तथा फलमीयुः । एतान्यापेक्षिकफलानि नत्वास्यन्तिकम् । फलोत्कर्षापकर्षौतु पूज्यपूजानुसारतो भवतः । अर्चनविधानन्यूनाधिक्यमेव फलतारतम्ये कारणमित्यर्थः ॥२०९ ॥
मुक्तिस्तु ज्ञानादेव ।
तर्हि कथं मोक्षप्राप्तिरित्यत आह, मुक्तिरिति ।
मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । |
यथा स्वप्रबोधं विना स्वजागरणमन्तरेण स्वस्वप्नः स्वस्वप्नकल्पितप्रपञ्च इत्यर्थः, न हीयते न निवर्तते, तथा ब्रह्मतत्त्वस्य ब्रह्मणो यथार्थस्वरूपस्य ज्ञानादेव मुक्तिस्सिध्यति। अन्यथा कर्मणा उपासनयोभयथा वा न सिध्यति “ज्ञानादेव तु कैवल्यं” “नान्यः पंथा विद्यते अयनाये (श्वेता. ३. ८) त्यादिश्रुतिभ्यः । अद्वितीयब्रह्मेतरस्य द्वैतस्य स्वप्नतुल्यत्वात्तत्प्रबोधेनैव मुक्तिरिति भावः ॥२१०॥
ब्रह्मज्ञानविरुद्धस्य द्वैतस्य स्वप्नतुल्यत्वमनुपपन्नमित्याशंक्य तत्तौल्यम् स्पष्टयति, अद्वितीयेति ।
अद्वितीयब्रह्मतत्वे स्वप्नोऽयमखिलं जगत् । |
ईशजीवादिरूपेण भासमानं चेतनाचेतनात्मकमखिलं जगत् अद्वितीय- ब्रह्मतत्वे निर्धूताखिलद्वैतब्रह्मस्वरूपे स्वप्न एव भवति । अनेन जीवेश्वरयोरपि जगदन्तःपातित्वेन स्वप्नवदयथार्थत्वमुक्तं भवति।२११॥
जीवेश्वरभेदो मायाकल्पितः ।
जीवेश्वरयोरुक्तं जगदन्तःपातित्वमेव विवृणोति, आनन्दमयेति ।