पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
२०९
कल्याणपीयूषव्याख्यासमेता

मायी सृजति विश्वं सन्निरुद्धस्तत्र मायया ।
अन्य इत्यपरा ब्रूते श्रुतिस्तेनेश्वरः सृजेत् । १९७ ॥

 मायी मायासचिव ईश्वरो विश्वम् सृजति । अन्यो जीवस्तत्र जगति मायया सन्निरुद्धस्सम्यक्प्रतिबद्धः इत्यपरा श्रुतिर्ब्रूते । तेन हेतुना ईश्वरो जगत् सृजेत् ॥ १९७ ॥

जगत्सृष्टिवर्णना ।

 एवमानन्दमयस्येश्वरत्वं तस्यैव जगत्कारणत्वं च निरूप्य तत्कर्तृकसृष्टिप्रकारं विशदयति, आनन्दमय इति ।

आनन्दमय ईशोऽयं बहुस्यामित्यवैक्षत ।
हिरण्यगर्भरूपोऽभूत्सुप्तिः स्वप्नो यथा भवेत् ॥ १९८ ॥

 आनन्दमयस्तत्कोशाधिष्ठाताऽयमीशो बहुस्यां कारणान्तरमन्तरेणाहमेव बहुधा भवेयमित्यवैक्षत नामरूपव्याकरणरूपेणेति भावः । “स ईक्षत बहुस्यां प्रजायेयेति" श्रुतेः (छाम्.६.२.३) तथेक्षणानन्तरमाकाशाद्यपंचीकृतभूतपंचकमभवत् । ततस्तेषां गुणकल्पितं समष्टिव्यष्टिरूपसूक्ष्मशरीरमभवत् । तत्र समष्टिरूपेऽहमित्यभिमानेनेशो हिरण्यगर्भरूपोऽभूत् । यथा सुप्तिः स्वप्नो भवेत् तथैव । यथानुद्ब्रुद्धसंस्काराणां किंचिदुद्बोधवशात्तात्कालिकसृष्टिरनुभूयते सा सृष्टिः सत्यत्वेनापि सुप्तपुरुषमात्रगोचरा शून्या भवति । तत्सृष्टेः स्वप्नावश्थामात्रकालिकत्वात् । एवं च सुषुप्तेरेवावस्थान्तरं स्वप्न इति सिध्यति । तथेश्वरोऽपीच्छामात्रगोचरकृतप्रपंचकस्तादृशप्रपंचं स्फुटं व्यावहारिकसत्यत्वेनाप्यवभासयंस्तिष्ठति । तदा तस्यावस्थान्तरं हिरण्यगर्भ इति तात्पर्यम् ॥१९८॥

 तर्हि सर्वं जगद्युगपदुद्भूतमाहोस्वित् क्रमशो वेत्याकांक्षायामाह, क्रमेणेति ।

क्रमेण युगपद्वैषा सृष्टिर्ज्ञेया यथाश्रुति ।
द्विविधश्रुतिसद्भावाद्विविधस्वप्नदर्शनात् ॥ १९९ ॥

27