नानुकूलः कालः समायाति तदानीमेव तद्भोगानुकूला जगत् उत्पत्तिर्भवति । सैव सृष्टिरित्युच्यत इत्ययमेवार्थ कर्मयुक्तकमिद्जगद्शब्दभ्यामत्र विवक्षितः ॥ १८४ ॥
लयप्रकारमाह, पुनरिति ।
पुनस्तिरोभावयति स्वात्मन्येवाखिलं जगत् । |
यथा संकोचितः पटः स्वगतं चित्रं संकोचयति, तथा स्वेनैवाविर्भावितं अखिलं जगत् स्वात्मन्येव पुनः प्राणिकर्मक्षयवशात् उपभोगेन क्षयात् तिरोभावयति लयंकरोति । प्रत्येकं तत्तत्प्राणिनां देहपातो मरणम् । सर्वप्राणिनां युगपद्देहपातो लय इति भेदः। अयं जगन्नाटकसूत्रधारः नाटकान्ते जगद्रंगभूमिं जवनिकयाऽच्छादयतीति भावः॥१८४॥
आविर्भावतिरोभावयोर्दृष्टान्तान्तराण्याह, रात्रति ।
रात्रिघस्रौ सुप्तिबोधावुन्मीलननिमीलने । |
इमौ दृष्टिलयौ रात्रिघस्रौ रात्र्यहनीत, सुप्तिबोधौ सुषुप्तिजाग्रती, नयनपक्ष्मणोरुन्मीलननिमीलने, तूष्णीम्भावमनोराज्ये तूष्णीम्भावो मनसो निर्व्यापारस्थितिर्मनोराज्यं तस्य स्वेच्छाविजृम्भणं, ते इव वर्तते । चक्रभ्रमणमिव पर्यायप्रवृत्तीत्यर्थः । १८५॥
ईश्वरस्य जगदुपादानकारणत्वाविचारः।
नन्वीश्वरस्य जगदुत्पत्तिहेतुत्वं आरंभकत्वेन वा स्वीयाकारपरिणामेन वेत्याशंक्याह, आविर्भावेति ।
आविर्भावतिरोभावशक्तिमत्वेन हेतुना । |
ईश्वरस्य जगत आविर्भावतिरोभावशक्तिमत्वेन हेतुना आरंभपरिणामादिचोद्यानां आरंभः परमाणूनां ह्यणुकादिक्रमेण संयोगेन पदार्थस्यारंभ इति