पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
[चित्रदीप
पञ्चदशी

ईश्वरस्यान्तर्यामित्वविचारः

 अन्तर्यामिशब्दार्थमाह, विज्ञानेति ।

विज्ञानमयमुख्येषु कोशेष्वन्यत्र चैव हि ।
अन्तस्तिष्ठन्यमयति तेनान्तर्यामितां व्रजेत् ॥ १६३ ॥

 यतो विज्ञानमयमुख्येषु कोशेषु अन्यत्र पृथिव्यादिरेतोऽन्तेषु वस्तुष्वन्त स्तिष्ठन्नपि तदन्यो भूत्वा यमयति सर्वव्यवहारं नियोजयति । तेनान्तर्यामितां व्रजेदन्तर्यामीत्युच्यत इत्यर्थः । “यो विज्ञाने तिष्ठन् विज्ञानादन्तरोऽयं विज्ञानं न वेद; यस्य विज्ञानं शरीरं, यो विज्ञानमन्तरो, यमयत्येष त अन्तर्याम्यमृत” इति श्रुतेः (ऋ. ३. ७२२) ॥१६३॥

 अस्मिन्नर्थे सर्वमन्तर्यामिब्राह्मणं प्रमाणमिति दिदर्शयिषया तत्रैकदेशभूतां यो मनसि तिष्ठन् मनसोऽन्तरो, यमयत्येष त आत्माऽन्तर्याम्यमृत” (बृ. ३.७.२०.) इति श्रुतिमर्थतः पठति, बुद्धाविति ।

बुद्धौ तिष्ठन्नन्तरोऽस्या धियाऽनीक्ष्यश्च धीवपुः ।
धियमंतर्यमयतीत्येवं वेदेन घोषितम् ॥ १६४ ॥

 अन्तर्यामीश्वरो बुद्धौ तिष्ठन्नप्यस्या आन्तरः। तदन्तःस्थितेस्स बुद्ध्या न ज्ञायत इत्यर्थः । धीवपुर्धीस्वरूपः। यद्रूपेण यद्दृश्यते तत्तस्य वपुरिति न्यायात् । धियाऽनीक्ष्यः धीविषयश्च न भवति ।साक्षिस्वरूपत्वात् । किं तु धियमन्तर्यमयतीत्येवं वेदेन पूर्वोक्तब्राह्मणेन घोषितम् ॥ १६४॥

 ईश्वरो बुद्धौ तिष्ठतीति कथं निश्चीयते ? अत्रास्थितस्यापि नियामकत्वं नगरस्थराजस्य देशनियामकत्ववदुपपन्नमित्याशंक्य तत्र स्थितिमुपपादयति, तन्तुरिति ।

तन्तुः पटे स्थितो यद्वदुपादानतया तथा।
सर्वोपादानरूपत्वात्सर्वत्रायमवस्थितः ॥ १६५॥