पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
[चित्रदीप
पञ्चदशी

या बुद्धिवासनास्तासु चैतन्यं प्रतिबिंबति ।
मेघाकाशवदस्पष्टचिदाभासोऽनुमीयताम् ॥ १५३ ॥

 बुद्धिवासना बुद्धौ या जगद्वासना विद्यन्ते तासु चैतन्यं प्रतिबिंबति । तर्हि कुतो नानुभूयत इत्यत आह, मेघेति । मेघाकाशो मेघमंडलगते जले महाकाशप्रतिबिंबः स इवास्पष्टचिदाभासोऽननुभूतोऽप्यनुमीयताम् । यथा मेघाकाशस्यास्पष्टत्वेऽपि घटोदकप्रतिबिंबिताकाशस्य स्पष्टत्वात्तदृष्टान्तेन सोऽनुमीयते । तथैव चिदाभासोऽप्यनुमीयते । एवं च तत्र वासनाश्चिदाभासविशिष्टा एव जगतो बीजभूता न केवला इति तात्पर्यम् ॥ १५३ ॥

 मेघाकाशस्येव चिदाभासस्यानुमाने सामग्रीसद्भावमाह, साभासमिति ।

साभासमेव तद्बीजं धीरूपेण प्ररोहति ।
अतो बुद्धौ चिदाभासो विस्पष्टं प्रतिभासते ॥ १५४॥

 साभासमस्पष्टचिदाभासेन सहितमेव तद्बीजं वासनारूपं कारणं धीरूपेण । जाग्रत्स्वप्नयोः प्ररोहति । अतश्चिदाभासो बुद्धौ विस्पष्टं प्रतिभासते । सुषुप्ताव- स्पष्टचिदाभासविशिष्टमज्ञानमेव जाग्रत्स्वप्नयोर्बुद्धिरूपेण परिणम्य विस्पष्टचिदाभासं भवति । बुध्यवस्थाविशेषत्वाद्बुद्धिवासनाश्चित्प्रतिबिंबवत्यो भवन्ति । एवं च जगत्यनुभूयमानं चैतन्यं चिदाभासरूपमेव । तच्च बीजेऽप्यस्ति । तथा च चैतन्य विशिष्टमेव जगत्स्वसजातीयम् साभासं मायाबीजमनुमापयतीति न काप्यनुपपत्तिः॥१५४

ईश्वरस्य मायोपाधिकत्वविचार:।

 जीवेश्वरयोरपि मायाकल्पितत्वमुदाहरति, मायेति ।

मायाभासेन जीवेशौ करोतीति श्रुतौ श्रुतम् ।
मेघाकाशजलाकाशाविव तौ सुव्यवस्थितौ ॥ १५५॥

 मायाशक्ति: आभासेन चिदाभासरूपेण जीवेशौ करोति कल्पयतीति श्रुतौ श्रुतम् । तयोर्मेदं सदृष्टान्तमाह, मेघेति। तावीश्वरजीवौ मेघाकाशजलाकाशा