पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
[चित्रदीप
पञ्चदशी

 मयापरिहारान्वेषणाय तस्या मायात्वमेव प्रथमतो निश्चेयमिति वदसि चेत्तर्हि तल्लोकप्रसिद्धमायात्वं निश्चिनु । लोकप्रसिद्धमायाया यल्लक्षणं तदेव मायाया लक्षणमितीक्ष्यताम् ॥ १४०॥

 लोकप्रसिद्धमायालक्षणमाह, नेति।

न निरूपयितुं शक्या विस्पष्टं भासते च या ।
सा मायेतीन्द्रजालादौ लोकाः संप्रतिपेदिरे ॥ १४१ ॥

 लोके इन्द्रजालादाविदमित्थमिति निरूपयितुं या न शक्या तथापि विस्पष्टं भासते प्रत्यक्षतः प्रतीयते सा मायेति लोकास्संप्रतिपेदिरे जज्ञिरे ॥१४१॥

 उक्तम् लक्षणं प्रकृते योजयति, स्पष्टमिति ।

स्पष्टं भाति जगच्चेदमशक्यं तन्निरूपणम् ।
मायामयं जगत्तस्मादीक्षस्वापक्षपाततः ॥ १४२॥

 स्पष्टोऽर्थः। अपक्षपाततः तटस्थबुद्ध्या ।। १४२ ॥

 जगतोऽनिरूपणीयत्वमुपपादयति, निरूपयितुमिति ।

निरूपयितुमारब्धे निखिलैरपि पण्डितैः ।
अज्ञानं पुरतस्तेषां भाति कक्षासु कासु चित् ॥ १४३ ॥

 स्पष्टोऽर्थः । पण्डिताः कपिलकणादयो जगस्वरूपविचारं कृतवन्तो दर्शनप्रवर्तकाः ॥ १४३॥

 निरूपणक्रमेऽज्ञानेनोपसंहारमुदाहरणेन दर्शयति, देहेति ।

देहेन्द्रियायो भावा वीर्येणोत्पादिताः कथम् ।
कथं वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम् ॥ १५५॥

 स्पष्टः पूर्वार्धः। भावाः पदार्थाः । तत्र देहे चैतन्यं कथं वासीदित्युक्ते जगतो निरूपणीयत्ववादिनस्ते उत्तरं समाधानं किम् ? ॥ १४४ ॥