फलजननक्षमत्वेऽपि देशकालादिसर्वकार्यनिमित्तकारणसद्भावसापेक्षत्वात्, कस्मिश्चित्
काले कस्मिश्चिद्देशे किचिद्देहावच्छेदेनैव फलजनकत्वनियमोऽस्माकमनुभवसिद्ध
इति, सर्वत्र कर्मणां तत्तद्देशकालदेहाद्यवच्छेदेनैव फलोत्पादकवादात्मनो नित्यत्व
विभुत्वयोरपि न भोगसांक्यप्रसंगो, न वा सार्वकालिकत्वप्रसंग इति ॥९२॥
तत्र प्रमाणमाह, एवमिति ।
एवं सर्वगतस्यापि सम्भवेताम् गमागमौ । |
स्पष्टोऽर्थः । एवं फलस्य देशकालभेदेन भोगोपपत्तावित्यर्थः। ते प्राभाकरादयः । अन्यत्र च तत्र तत्र समग्र इत्यनेनोपनिषत्स्वपि विद्यमानः । "स यदाऽस्माच्छरीरादुत्क्रामति सहेवेतैः सर्वैरुत्क्रामति, (कौषी.३.३)"ये वैकेचास्माल्लोकात्प्रयन्ति चंद्रमसमेव ते सर्वे गच्छन्ति"(कौषी,१.२),‘तस्माल्लोकात् पुनरेत्यास्मै लोकाय कर्मणे",(बृ. ४. ४. ६) इत्यादिः कर्मप्रतिपादको भागः संग्राह्य इति सूचितम् । अत्रायं विवेकः।जीवस्य व्यापकत्वेन गमनागमने अत्र सर्वत्र कर्मानुगुणफलोपभोगानुकूलशरीरन्तरस्य देशान्तरे समुद्भवात्तद्देशावच्छेदेन फलोपभोग इत्यौपचारिके गमनागमने । सर्वगस्याप्यात्मनः कर्मवशादिच्छादिवशात् प्रकृतदेहेऽवस्थितिरिति बोध्यम् ॥ १३॥
नन्विच्छादयो गुणाः कर्तृत्वभोक्तृत्वे च विज्ञानमय एव संभवन्ति । विज्ञानमयादन्य आन्तर आनंदमय इति श्रूयते । अन्यस्यान्तरस्यानन्दमयस्य कथं विज्ञानमयधर्मभूतेच्छादिकं कर्तृत्वादिकं च घटत ? इत्याशंकाम्, समाधत्ते, आनन्देति ।
आनंदमयकोशो यः सुषुप्तौ परिशिष्यते । |
सुषुप्तावस्पष्टचित् अस्पष्टचैतन्यवान् य आनन्दमयकोशः सर्वेन्द्रियाणा मुपरतत्वात्परिशिष्यते स पूर्वकोशः एषां प्राभाकराणामात्मा भवति। अस्यात्मनस्ते