तस्मात् अणुत्वे आनखाग्रश्रुतिविरोधात् , मध्यमपरिमाणत्वेऽनित्यत्वप्रसंगाच्च,
आत्मा महानेव अणुर्न मध्यमोऽपि न, किं त्वाकाशवत्सर्वगतः
सर्वव्यापी निरंश इति श्रुतिसम्मतः । "स वा एष महानत आत्मा योऽयं
विज्ञानमयः’ (बृ. ४.४.२२) “आकशवत्सर्वगतश्च नित्यः" इत्यादिश्रुत्यभिमत
इति भावः ॥ ८६ ॥
आत्मनः स्वरूपविचारः ।
एवं सर्वगतत्वनिरंशत्वे संस्थाप्यात्मनस्स्वरूपविचारमारभते, इतीति ।
इत्युक्त्वा तद्विशेषे तु बहुधा कलहं ययुः । |
पूर्वार्धः स्पष्टः । कलहकारणान्यात्मनः स्वरूपविशेषे । भिन्नमतान्याह । आत्माऽचिद्रूप इति केचित्, चिद्रूप इत्यन्ये, चिदचिद्रूप इति विशिष्टस्वरूपत्वमपरे आहुः ॥८७॥
अचिद्रूपवादिनां मतमाह, प्राभाकरा इति ।।
प्रभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् । |
प्राभाकराः पूर्वमीमांसकानामन्यनमास्तार्किकाश्च केचिदस्यात्मनोऽचिदातात्मतां आत्मा द्रव्यं सर्वव्यापकत्वात् आकाशवत् इत्यनुमानेन प्राहुः । नन्वात्मनो द्रव्यत्वे कथं तस्य चेतनत्वमित्यत आह, शब्दवदिति । आकाशस्य शब्दवत् तद्गुणः तस्यार्यात्मनोगुणः चितिः । एवं चात्मा न चिद्रूप:, अपि तु चिदाश्रय इति भावः । ज्ञानाधिकरणमात्मेति मन्यन्ते तार्किकाः ॥ ८८॥
अचिदात्मके आत्मन्यन्येऽपि गुणास्सन्तीत्याह, इच्छेति ।
इच्छाद्वेषप्रयत्नाश्च धर्माधर्मौ सुखासुखे । |