पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१५७
कल्याणपीयूषव्याख्यासमेता

सहिताविद्याजन्यविक्षेपरूपं स्थूलसूक्ष्मशरीरात्भकं देहद्वयं प्रारब्धक्षयमीक्षत । प्रारब्धातिरिक्तं कर्म ज्ञानेन विनश्यति । प्रारब्धस्तु प्रारब्धाधीनयावच्छरीरपाता वधिकमितिभावः । अयमतसंग्रहः । ‘न भाति नास्ति कूटस्य" इत्याकाराऽऽवृतिः कूटस्थे चिदाभासाध्यासरूपदेहद्वयसंयुता । तद्देहद्वयं च प्रारब्धप्राप्तम् । तंत्र चिदाभासस्यारोपिततत्वज्ञानोदयेनाऽविद्याविनाशे सत्यावृतिविक्षेपो विनश्यतः ।

ष्टं शवकल्पं । चिदाभासस्य शरीरद्वयं तु तत्पातेनैव विनश्यतोति ॥ ५३ ॥

 नन्वविद्याया नाशे तदाश्रया विज्ञेपशक्तिः किमाश्रया तिष्ठतीत्याशंक्य, निराश्रयस्य किंचित्कालं स्थितिर्नैयायिकैरप्यभ्युपेयत एवेति समाधत्ते, उपादान इति ।

उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते ।
इत्याहुस्तार्किकास्तद्वदस्माकं किं न संभवेत् ॥ ५४ ॥

 उपादाने कारणे विनष्टेऽपि तस्य कार्यं क्षणं नाशक्षणकालं प्रतीक्षते स्वनाशार्थं निरीक्षते, इति तार्किका आहुः । तद्वदस्माकं मतेऽप्यविद्याया नाशेऽपि तच्छक्तिभूतो विक्षेपः किंचित्कालं किं न संभवेत् ? कालतारतम्यपरोक्षाया अत्राप्रयोजकत्वादिति भावः ॥ ५३ ॥

 ननु कारणनाशस्य कार्यनाशजनकत्वात्कार्यनाशं प्रति प्रतियोगिनोऽपि कारणत्वात्कारणनाशक्षणे प्रतियोगिभूतकार्यस्यापि निराश्रया स्थितिरभ्युपेयते, क्षणमात्रं तत्थित्यङ्गीकारेणैवोपपत्तौ दीर्घकालस्थितिः कथमभ्युपेयत इत्यत आह, तंतूनामिति ।

तंतूनां दिनसंख्यानां तैस्तादृक् क्षण ईरितः ।।
भ्रमस्यासंख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ ५५ ॥

 दिनसंख्यानां क्षणसमुदायात्मकदिनगतसंख्यापरिच्छिन्नानां वस्त्रस्योपादान कारणभूतानां तंतूनां विषये तैस्तार्किकैस्तदवयवसूक्ष्मकालरूपः क्षणः कार्यस्थित्य नुकूल ईरितः । असंख्यकल्पस्य असंख्याः कल्पा यस्य तस्य संख्यावदवयवशून्य