पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
कल्याणपीयूषव्याख्यासमेता

दात्म्याध्यासः अन्योन्यं तत्तद्धर्माध्यासश्च विवक्षितः। अस्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चारोपणं प्रकृतेऽध्यास इति तात्यर्यम् ॥ २४ ॥

आवरणविक्षेपविचारः ।

 अन्योन्याध्यासबीजं मूलविद्येत्याह,अयमिति ।

अयं जीवो न कुटस्थं विविनक्ति कदाचन ।।
अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ २५ ॥

 अयमेवमन्योन्याध्यासेन मिथ्याज्ञानसहितो जीवः कदाचन यदा कदाऽपि कूटस्थं न विविनक्ति स्वस्माद्विविक्ततया न जानाति । अयमनादिरविवेको मूला- विद्येति गम्यतां ज्ञायताम् ॥ २५ ॥

 तस्याः विक्षेपावृतिरूपं द्वैविध्यं प्रदर्श्य तत्वावृत्तिस्वरूपं निरूपयति, विक्षेप इति ।

विक्षेपावृतिरूपाभ्यां द्विधाऽविद्या व्यवस्थिता ।
न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥ २६ ॥

 विक्षेपावृतिरूपाभ्यां विक्षेपो विक्षेपशक्तिः ययाऽवरणशक्तिमताऽज्ञानेन वस्तुनि तिरोहिते आकाशदयः कल्प्यन्ते सा । आवृतिरावरणशक्तिर्यया विद्य- मानस्य वस्तुनः स्वरूपेण भानं प्रतिबध्यते सा । ताभ्यामविद्या द्विधा व्यवस्थिता। तत्रावृतिं निरूपयति, नेति । कूटस्थो न भाति नास्तीत्यापादनं व्यवहारकारण- मावृतिरित्युच्यते । विक्षेपावृती ग्रंथकृतैव तृप्तिदापे ३६,३७ श्लोकाभ्यां विव- रिष्येते ॥ २६ ॥

 अज्ञानावरणयोर्लोकानुभवसिद्धतां प्रदर्शयति, अज्ञानीति ।

अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते ।
न भाति नास्ति कूटस्थ इति बुध्वा वदत्यपि ॥ २७॥

 विदुषा ज्ञानिना “कूटस्थं जानासि किमिति?" पृष्टोऽज्ञानी “न मया प्रबुध्यते” इति प्रतिवदति । एवं च बाषयप्रयोगस्य वाक्यार्थज्ञानपूर्वकत्वेन

19