अथ
कल्याणपीयूषव्याख्यासमेता
पंचदशी
चित्रदीपप्रकरणम् ॥ ६ ॥
एवं सृष्टिद्वैविध्यं तद्धेतुभूतजीवेश्वरस्वरूपभेदं च निरूप्य स्वरूपभेदस्योपाधिकृततया उपाध्योश्च मायातदवान्तरस्वरूपतया चावस्तुत्वं निरूप्य तन्निरूपणेन लब्धं ब्रह्मात्मैक्यं श्रौतमिति बोधयितुं महावाक्यार्थनिरूपणं कृत्वा तद्विवेकेन श्रुतं ब्रह्मात्मैक्यं दृष्टान्तमुखेन सम्यग्बोधयितुमिदं प्रकरणमारभते, यथेति ।
चित्रदीपदृष्टान्तेन परमात्मन्यवस्थाचतुष्टयकथनम् ।
यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्। |
यथा चित्रपटे चित्रलेखनेन सम्यक्नित्रिने पटे अवस्थानां वक्ष्यमाणानां चतुष्टयं दृष्टं, तथा परमात्मनि अवस्थाचतुष्टयमस्तीति विज्ञेयम् ॥ १ ॥
दृष्टान्तदार्ष्टान्तिकयोरवस्थाचतुष्टयमाह, यथेति ।
यथा धौतो घट्टितश्च लांछितो रंजितः पटः । |
यथा पटः धौतो घट्टितो लांछितो रंजित इत्यवस्थाचतुष्टयविशिष्टो ज्ञायते, तथा परमात्माऽपि चित् अन्तर्यामी सूत्रात्मा विराडात्मेत्यवस्थाचतुष्टय वानितीर्यते ॥ २ ॥
पटगतावस्थाचतुष्टयं विवृणोंति, स्वत इति ।
स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् । |