पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
[महावाक्य
पञ्चदशी

पाधीनां व्यावृत्ततया परस्परं भिन्नत्वेऽपि सर्वत्र चैतन्यस्यानुवृत्ततयोपाधिकं चैतन्यमुपाधिपरिहाणे एकमेवावतिष्ठते । एवं च सर्वव्यापकत्वाद्व्यापकरूपार्थबोधकब्रह्मशब्दस्याभिधेयं तद्भवितुमर्हति । परस्परविलक्षणानां चतुर्मुखामरनराश्वादिव्यक्तीनां तत्रारोपादनेकधा प्रतीयते । यथा रज्जौ सर्पाध्यासात्तद्रूपेण प्रतीतिः । सहजस्थितिमास्थिताऽपि रज्जुर्भ्रान्त्या सर्प इव विशेषाकारेणावभासते । यदा दीपेन नायं सर्पः रज्जुरेवेति यथार्थज्ञानमुत्पद्यते तदा स्वयं निर्विकारा रज्जुरवतिष्ठते। सैव तत्राध्यस्थस्य सर्पस्य कारणं भवति । तदभावे भ्रान्तेरेवाभावात् । एवमविद्यया निर्विकारे परे ब्रह्मणि सर्वं जगदध्यस्यते, येन तत्तद्विशेषाकारेण वर्तमानमिव प्रतीयते । एवं च तज्जगतः कारणं भवति। नन्वनिर्ज्ञातपूर्वसर्पस्वरूपस्य कस्यापि कदाचिद्रज़ा न सर्पभ्रान्तिरुदेति । तथैव देवादीनामज्ञातपूर्वतया ब्रह्मणि न तद्भ्रान्तेरवकाश इति चेन्न, अध्यस्तत्वमात्रोपदेशस्यैव दृष्टान्तेन विवक्षितत्वात् । दृष्टान्तधर्माम्सर्वे सर्वधा दार्ष्टान्तिके समन्वेया इत्यसमंजसोऽयं नियमः । "न हि दृष्टान्तदार्ष्टान्तिकयोः कचित्कंचिद्विवक्षितांशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं युक्तम्”। तथा सति सहृदयाह्लादनायोपात्ता चंद्रवन्मुखमित्युपमा तद्गतकाल- कळ्ंकत्वादिस्फोरणेन प्रत्युतोद्वेजिकाऽपि स्यात् । नैवास्ति तथानुभवः। अतो दृष्टान्तापेक्षितधर्मस्य स्फोरणायैवेष्यते तद्गतस्य नान्यस्य धर्मस्य । नामरूपात्मकस्य जगतो मिध्यात्वभावे नामादिविविधरूपप्रतीतिः प्रमा स्यात् । “वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य" (छाम्. ६ १.४) मिति श्रुत्या विकाराणामन्सत्यत्वं निर्विकारस्य परब्रह्मणः सत्यत्वं च प्रतिपाद्यते । तदनुरोधेन तत्वतीतेर्भ्रान्तित्वसिद्धये तेषामध्यासवशेन मिथ्यात्वमेव दृष्टान्तेन बोध्यते । न तु दृष्टान्ते विद्यमानास्सर्वे घर्मा अत्र विवक्षिताः । अन्यथा रज्जुसर्पस्य प्रातिभासिकसत्यत्वं जगतो व्यावहारिकसत्यत्वमिति व्यवस्थितो व्यवहारो न घटेत । किं चाध्यासे पूर्वानुभवोऽपेक्षित इति सत्यम् । स च प्रमात्मक एवेति न निर्बंधः। भ्रमात्मकेनाऽप्यनुभवेनोत्तरोत्तराध्यासस्सिध्यति । अद्वैतनयेऽविद्याया अनादित्वाङ्गीकारेण पूर्वपूर्वाविद्ययोत्तरोत्तरभ्रमस्सिध्यति । प्राक्तनसृष्टिवासनात्मिकाविद्याद्यतनसृष्टौ चतुर्मुखाद्यध्यासं कल्पयतीत्युक्तौ न कापि क्षतिः। अत एव भाष्ये अध्यासलक्षणं “परत्र पूर्वदृष्टावभास ” इत्युक्तम् । तत्र दर्शनं भ्रमः प्रमा वा भवतु । प्रमा