व्यंजको वा यथाऽलोको व्यंग्यस्याकारतामियात् । |
यथा व्यंजकोऽभिव्यक्तिजनक आलोकः कान्तिः सूर्यस्य दीपादेर्वा व्यंग्यस्याभिव्यक्तस्य घटादेराकारतामियादाप्नुयात् ; तथैव धीः सर्वार्थव्यंजकत्वादर्थाकारा प्रदृश्यते ॥ २९ ॥
एवं भाष्यकारसम्मतिं प्रदर्श्य वार्तिकाकारसम्मतिमपि दर्शयति,मातुरिति ।
मातुर्मानाभिनिष्पत्ति: निष्पन्नं मेयमेति तत् । |
मातुः साधिष्ठानबुद्धिगतचिदाभासान्मानाभिनिष्पत्तिर्मानस्यान्तःकरण-
रूपस्योत्पत्तिर्भवति । निष्पन्नमुत्पन्नं तद्वृत्यात्मकमन्तःकरणं चक्षुरादिगोळक-
द्वारा मेयं बाह्यं प्रमेयं वस्त्वेति प्राप्नोति । तेन सह संबद्धो भवति । मेयाभिसंगतं
मेयेन ज्ञेयवस्तुना सहाभिसंगतं तदन्तःकरणं मेयाभत्वं ज्ञेयवस्त्वाकारतां प्रपद्यते
प्राप्नोति । तदाकाराकारितं भवति । चिदाभासोज्ज्वलितान्तःकरणवृत्तिश्चक्षुरादि-
गोळकद्धारा वस्तुसंबंधमेत्य तदाकारमाप्नोतीति भावः । ३० ॥
एवं रूपविमर्शफलमाह, सतीति ।
सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ। |
एवं सति प्रमेयौ विषयौ द्वौ स्तः। कौ तौ? मृण्मयधीमयौ घटौ ।
मृदात्मको घट एकः,मनोमयोऽन्यः । तयोर्मृण्मयो घटो मानमेयोऽन्तःकरणेन
ज्ञेयः ग्राह्य: स्यात् । अन्यो धीमयो घटः साक्षिभास्यः ॥ ३१॥
एवं प्रदर्शितं सृष्टिद्वयं । तत्र हेयत्वाज्जीवकृतधीमयसृष्टेः बंधकृत्त्व- मन्वयव्यतिरेकाभ्यां दर्शयति, अन्वयेति ।