पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.२
 

रसमभिदधति सेोममभिषुणेति सामं प्रावयतौ"त्यादिवाक्ये रसस्य प्रस्तु तत्वात् । सेमशब्दश्च लतावन: ततश्च लताविशिष्टयागविधिरयं कथमनु वादकः स्यात् । प्रत्यक्षे च यागविधावानुमानिकविथिकल्पना ऽनुपपन्ना । तस्मात्सोमेन यजेतेत्येवापूर्वविधि: इत्तराणि त्विन्द्रवाय्वादिविशिष्टग्रहणा ख्यसंस्कारविधायकानीति द्वितीये निरुपितमिति ।

भवत्वपूर्वविधिस्तथापि कथ्यमावृत्तिसिद्धिः । सेमवाक्यविहितसेम ५० । १४ यागे इन्द्रघाय्वदिदेवता विकल्येन विधीयन्तां नेत्याह तत्र चेत्यादिना । एवं ह्यच विकल्प: स्याट् यदीमानि देवत्वाविधानानि द्रव्यं वा सर्व सकृत् त्यतुं शक्रयम् । न तावद् द्रव्यस्य सकृत् त्यागसंभवे दशमुष्टोर्मिमीते इति विधेः सेामस्य विपुलत्वात् । न च दशापि मुष्टये लत्तारूपेण व्यज्यन्ते अभिषुणेत्यभिावयत् िगालयतीत्यर्थ इत्यादिना रसभावेन यागे पयेगावगमात् तस्य च नियतपरिमाणादककलशजलैः सेकात् । न च सर्वो ऽपि रसः सकृत् त्यज्येत नानदेवतेोद्वेशेन गृह्यमाणत्वादित्याह इन्द्रवाय्वादीति । ननु प्रतीन्द्रवाय्वादिकं ग्रहणानि विकल्प्यन्तां तचाह प्रादेशमात्रेष्विति । प्रादेशमाचेण हि पावण शकैकेनेन्द्रवाय्वादिभ्यो रसे गृह्यते न चैकेकस्मिन्याचे कृत्स्नो रसः संमात्तीत्यर्थः । ग्रह्मणानीत्यस्य व्याख्यानं पृथकल्पनानीतिां । एवं द्रव्यस्य सकृत्यागासंभवमभिधाय देव साविध्यसंभवमाह न तु सेामयागेोद्देशेनेति । एषु हि वाक्येषु गृहातीति ग्रहणान्वये देवतानामवगम्यते अत: कथं यागे देवलाविधिरित्यर्थः । मेव व्याचष्ट न च प्रादेशमात्रमित्यादिना । प्रादेशमाचे ऊध्र्वत्वप्रतीतिः सता ऽल्पत्वविशेषणद्वयेनेत्तं तुल्यार्थतयेति । एकसामसंस्कारयेजनत येत्यर्थः । लिङ्गदर्शनान्याह मत्त एवेति । विकल्ये ह्येक एव प्रयेग ३५१ । ८ स्यादित्यर्थः । समुचये सत्युपपद्यमानं क्रमं दर्शयति श्राश्विन इति । दशानां यहाणां मध्ये आश्विने ग्रहणकाले दशमत्वेन गृह्यते हेमकाले


स्रावयतीति । पुः पाः । अनुषाटः स्याद्विरि २ पु• या