पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४५
देहस्य भूत्पञ्चकारभ्यत्वम् ।

पृथिवीत्वं परिहरत्त: । गेrत्वाश्वत्वविवक्षायामविशेषेगा यत्तकिंचित्परस्प रविवक्षायां च हेत्तारनेकान्तिकता । गुणत्वरुपत्वयेगात्वाश्वत्वे त्यजते। र्यत्किञ्चित्परस्परात्मकस्तम्भकुम्भैा परिहरतारप्येकच समावेशात् । तस्मा त्ग्रसिद्धिसामथ्र्याट्टाधकस्यानिरुपणात् पञ्चभूतमय: काय: श्रुतिते ऽप्यनुमी यताम् । प्रयते हि पृथिवॉमय आपेोमये । वायुमयस्तेजेमय आकाशमय इति । अच च देहृद्धारात्मन: . पञ्चभूत्तमयत्वमुच्यते चतुर्मय इत्यादिवा क्यशेषात् । अनुमानमपि देवदत्तशरीरमेतज्जनकत्वे सत्यनुदकत्वात्तेज स्त्वाद् वायुत्वानाकाशत्वात्यन्ताभाववत्समवायिकारणकं शरीरत्वाद्यज्ञदत्त शरीरवदिति । यद्यपि यज्ञदत्तशरीरमनुदकत्वादिमत् पृथिवीमाचसमवायि कारणकं परेषां तथापि देवदत्तशरीरजनकत्वे सति अनुदकादिम"ज्जन्यं न भवति तस्य देवदत्तशरीरजनकत्वाभावेन तद्विशिष्टानुदकादिमत्वरहित् त्वात् । अत्त: साध्यप्रसिद्धिः । एतञ्जनकत्वे सत्यनुदकत्वादिमत्वरहित् जन्यत्वमनुदकत्वादिमत्वरहितजन्यत्वाद्वा स्यादेतज्जजनकत्वरहित्तजन्य त्वाद्वा द्वितीये व्याहत इति प्रथम: स्यात्तथा चेदकत्वादिमद्भन्तसमवायि कारणत्वसिद्धिरिति ।

ननु निराश्रया एव प्राणा गच्छन्तु वायुबदित्याशङ्काह जीवद्देहे ५२८ । इति । भवतु साझयत्वं गतिस्त्वाश्रयस्यैव न प्राणानामिति नेत्याह त दनुविधायिन इति । न चेत्प्राणा गच्छन्ति स्थित्याधारदेशान्न वियुज्येरनु । तथा च देशान्तरगते देहे प्राणापलब्धिर्न स्यादित्यर्थः । साझध्यप्राणलक्रा न्तावाप्रयदर्शनप्रसङ्गमाशङ्कयाह स्वदत्म इति । ननु कायेवशादद्यः कश्चिदाश्रय कल्प्यत्सां कथं भूत्तसिद्धिरत आह भूतेन्द्रियमय इति । इन्द्रियग्रहणं मृतदेहतुल्यत्वव्यावृत्यर्थम् । जागरिते भूतमयदेहाश्रयत्वदर्शनादित्यर्थः । तर्हन्द्रियाणि सन्त्वाश्रयेा नेत्याह न हीति । तेषामपि परंपाधिगमनत्वेन प्राणा इत्यनुपपादकत्वादित्यर्थः । नैव प्राणा गच्छन्तीति भाष्यं दृष्टा प्राणानां गमनाभावे ऽग्न्यादिगतिश्रुतिहेतुरुक्त इति कश्चिन्मन्येत तच्चायुक्तम् । श्रृंते सत्यामवधारणानुपपत्तेः अत आह श्राविते ऽपीति । अत्र श्रुतिट्ट यविरोधादनध्यवसाय आशङ्कते । भाष्यं च प्राणा गच्छन्त्येवेति यत्तत्रेति


अनुदकत्वाद्विमदिति २ पुः पा• ।