पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
षष्ठोऽङ्कः ।

 पाञ्चालकः--न केवलमयमाशीः असुरनिषूदनस्यादेशोऽपि ।

 युधिष्ठिरः--को हि नाम भगवता संदिष्टं विकल्पयति ? कः कोऽत्र भोः ।

( प्रविश्य ।)

 कञ्चुकीः--आज्ञापयतु देवः ।

 युधिष्ठिरः--देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः ।

 कञ्चुकी--यथाऽऽज्ञापयति देवः । ( सोत्साहं परिक्रम्य । ) भो भोः संविधातॄणां पुरःसराः ! यथाप्रधानमन्तर्वंशिका दौवारिकाश्च, एष खलु भुजबलोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननरसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ( आकाशे ) किं ब्रूथ ? 'सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसि' इति । साधु पुत्रकाः ! साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।

 युधिष्ठिरः--आर्य जयधर ! ।

 कञ्चुकी--आज्ञापयतु देवः ।

 युधिष्ठिरः--गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण पारितोषय |

 कञ्चुकी--यदाज्ञापति देवः । ( इति पाञ्चालकेन सह निष्क्रान्तः ।)

 द्रौपदी--महाराअ ! किंणिमित्तं उण णाहभीमसेणेण सो दुराआरो भणिदो--पञ्चाणं वि अम्हाणं मज्झे जेण रोअदि तेण सह दे संगामो होदु' त्ति । जइ मद्दीसुदाणं एकदरेण सह संगामो तेण पत्थिदो हवे तदो अच्चाहिदं हवे । ( महाराज ! किंनिमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः--'पञ्चानामप्यस्माकं मध्ये येन रोचते तेन सह ते सङ्ग्रामो भवतु' इति । यदि माद्रीसुतयोरेकतरेण सह सङ्ग्रामस्तेन प्रार्थितो भवेत्ततोऽत्याहितं भवेत् ।)