वेणीसंहारे ।
षष्ठोऽङ्कः ।
( ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च । )
युधिष्ठिरः--( विचिन्त्य निश्वस्य च । )
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते |
द्रौपदी--( सबाष्पम् ।) महाराअ ! पञ्चालिए त्तिं किं ण भणिदम् ( महाराज ! पाञ्चाल्येति किं न भणितम् ? )
युधिष्ठिरः--कृष्णे ! ननु मया । ( पुरुषमवलोक्य । ) बुधक !
पुरुषः-- देव! आज्ञापय ।
युधिष्ठिरः-- उच्यतां सहदेवः--‘क्रुद्धस्य वृकोदरस्यापर्युषितां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरंतु समन्तात्समन्तपञ्चकम् । अपि च ।
पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः |
पुरुषः-- यथाज्ञापयति देवः ।
युधिष्ठिरः-- तिष्ठ । एवं न वक्तव्यः सहदेवः ।
ज्ञेया रहः शङ्कितमालपन्तः |