गान्धारी--जाद ! कदरो उण सो जस्सिं आसं ओलम्बिस्सम् । ( जात ! कतरः पुनः स यस्मिन्नाशामवलम्बिष्ये ।)
धृतराष्ट्रः--किं वा शल्य उत वाश्वत्थामा ? ।
संजयः--हा कष्टम् ।
मृते भीष्मे हते द्रोणे कर्णे च विनिपातिते । |
दुर्योधनः--किं वा शल्येनोत वाश्वत्थाम्ना ? ।
कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा । |
( नेपथ्ये कलकलं कृत्वा )
भो भोः कौरवबलप्रधानयोधाः! अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति ।
( सर्वे ससंभ्रममाकर्णयन्ति )
( प्रविश्य संभ्रान्तः )
सूतः–-आयुष्मन् !
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
सर्वेः--कश्च कश्च ? ।
सूतः--
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ २५ ॥
गान्धारी--( सभयम् ) जाद ! किं एत्थ पडिपज्जिदव्व्म् । ( जात! किमत्र प्रतिपत्तव्यम् ।)
दुर्योधनः-- ननु संनिहितैवेयं गदा ।
गान्धारी--हा हदम्हि मन्दभाइणी । ( हा हतास्मि मन्दभागिनी ।)
दुर्योधनः--अम्ब! अलमिदानीं कार्पण्येन । संजय, रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । समागतोऽस्माकं शोकापनोदी जनः ।
धृतराष्ट्रः-- वत्स! क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।
दुर्योधनः-- तात! किमनेनोपलब्धेन ? ।