अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः |
वत्स दुर्योधन ! समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।
दुर्योधनः--( लब्धसंज्ञः । )
अयि कर्ण कर्णसुखदां प्रयच्छ मे |
( इति पुनर्मोहमुपगतः )
( सर्वे समाश्वासयन्ति । )
दुर्योधनः--
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते । |
अपि च ।
शोचामि शोच्यमपि शत्रुहतं न वत्सं |
गान्धारी--जाद ! सिढिलेहि दाव क्खणमेत्तं बप्फमोक्खम् । ( जात ! शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् )
धृतराष्ट्रः--वत्स ! क्षणमात्रं परिमार्जयाश्रूणि ।
दुर्योधनः--
मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः । |
सूत ! केनैतदसंभवनीयमस्मत्कुलान्तकरणं कर्म कृतं स्यात् ? ।