पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
चतुर्थोऽङ्कः ।

( ततो देव! द्वयोरपि तयोरन्योन्यसिंहनादगर्जितपिशुनयोर्विविधपरिमुक्तप्रहरणाहतकवचसंगलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् । )

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो देव ! एदस्सिं अन्तरे जेट्ठस्स भादुणो परिहवसङ्किणा धणंजएण वज्जणिग्घादणिग्घोसविसमरसिदघअअग्गट्ठिदमहावाणरो तुरङ्गमसंवाहणव्वापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचउब्बाहुदण्डद्दुद्दंसणो । आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो । ( ततो देव ! एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः परिभवशङ्किना धनञ्जयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरंगमसंवाहनव्यापृतवासुदेवशंखचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दशन आपूरितपाञ्चजन्यदेवदत्तताररासितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः ।)

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः–- तदो भीमसेणधणंजएहिं अभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअं अवधूणिअ सअणससिअं आकण्णाकट्टिदकठिणकोदण्डजीओ दाहिणहत्तुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहीओ तं देसं उवगदो कुमालविससेणो । ( ततो भीमसेनधनंजयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससंभ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवो दक्षिणस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिकस्तं देशमुपगतः कुमारवृषसेनः ।

 दुर्योधनः--( सावष्टम्भम् । ) ततस्ततः ।

 सुन्दरकः--तदो अ देव ! तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं किसणवण्णेहिं साणसिलााणिसिदसामलसल्लवन्धेहिं कुसुमिदो विअ तरू मुहूत्तएण सिलीमुहेहिं पच्छादिदो धणंजअस्स रहवरो । ( ततश्च देव ! तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकंकपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशस्यबन्धैः कुसुमित इव तरुर्मुहूर्तकेन शिलीमुखैः प्रच्छादितो धनञ्जयस्य रथवरः ।)

 उभौः--( सहर्षम् ।)ततस्ततः ।

 सुन्दरकः--तदो देव ! तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणंजएण ईसि विहसिअ भणिदम्--अरे रे विससेणे ! पिदुणो वि दाव दे ण