हन्ता किरीटिनमयं ? नृप ! मुञ्च कुर्यां |
( इति प्रहर्तुमिच्छति )
कर्णः--( खड्गमुद्यम्य । )अरे वाचाट! ब्राह्मणाधम! अयं न भवसि । राजन् ! मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( इति हन्तुमिच्छति । )
( दुर्योधनकृपौ निवारयतः )
दुर्योधनः-- कर्ण! गुरुपुत्र! कोऽयमद्य युवयोर्व्यामोहः ? ।
कृपः-- वत्स ! अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।
अश्वत्थामा-- मातुल! न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दुर्पः शातयितुम् ।
कृपः-- वत्स! अकालः खलु स्वबलप्रधानविरोधस्य ।
अश्वत्थामा-- मातुल! यद्येवम्--
अयं पापो यावन्न निधनमुपेयादरिशरैः |
( इति खड्गमुत्सृजति ।)
कर्णः--( विहस्य । ) कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।
अश्वत्थामा-- ननु रे! अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् ।
कर्णः-- अरे मूढ !
धृतायुधो यावदहं तावदन्यैः किमायुधैः? । |
( नेपथ्ये ।)
आः दुरात्मन्! द्रौपदीकेशाम्बराकर्षणमहापातकिन्! धार्तराष्ट्रापसद ! चिरस्य खलु कालस्य मत्संमुखीनमागतोऽसि । क्षुद्र पशो! क्वेदानीं गम्यते? अपि च । भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषिणश्चापपाणयो मानधनाः! शृण्वन्तु भवन्तः ।