सूत! गच्छ त्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामामत्स्यन्दनमुपनय ।
सूतः-- यदाज्ञापयति कुमारः । ( इति निष्क्रान्तः ।)
कृपः-- वत्स ! अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे निकाराग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु--
अश्वत्थामा--किमतः परम् ? ।
कृपः-- सैनापत्येऽभिषिच्य भवन्तमिच्छामि समरभुवमवतारयितुम् ।
अश्वत्थामा--मातुल! परतन्त्रमिदमकिंचित्करं च ।
कृपः-- वत्स ! न खलु परतन्त्रं नाकिंचित्करं च । पश्य ।
भवेदभीष्ममद्रोणं धार्तराष्ट्रचलं कथम् । |
कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्यौधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतति ।
अश्वत्थामा-- यद्येवं, त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहप्रणयसमाश्वासनया मन्दसंतापं करोमि ।
कृपः--वत्स ! एवमिदम् । अतस्तमेवोद्देशं गच्छावः ।
( इति परिक्रामतः ।)
( ततः प्रविशतः कर्णदुर्योधनौ ।)
दुर्योधनः--अङ्गराज !
तेजस्वी रिपुहतबन्धुदुःखपारं |