भानुमती–-अज्जउत्त ! सङ्का मे बाहेदि । ता अणुमण्णदु मं अज्जउत्तो । (आर्यपुत्र ! शङ्का मां बाधते । तदनुमन्वतां मामार्यपुत्रः ।)
राजा--( सगर्वम् ।) देवि ! अलमनया शङ्कया । पश्य ।
किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं ? |
भानुमती--अज्जउत्त ! ण हु मे किं वि आसङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जउत्तस्स एव्व मणोरहसंपत्तिं अहिणन्दामि । ( आर्यपुत्र ! न खलु मे किमप्याशङ्काकारणं युष्मासु संनिहितेषु । किंत्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।)
राजा--अयि सुन्दरि ! एतावन्त एव मे मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।
प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं ( नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) |
भानुमती--(सभयं राजानं परिष्वज्य ।) परित्ताअदु परित्ताअदु अज्जउत्तो ।( परित्रायतां परित्रायतामार्यपुत्रः ।)
राजाः--( समन्तादवलोक्य ।) प्रिये ! अलं संभ्रमेण । पश्य ।
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे |
सखी--महाराअ ! आरोहीअदु एदं दारुपव्वदुप्पासादम् । उव्वेअकारी क्खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उन्मूलिदतरुवरसद्दवित्त