पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
वेणीसंहारे

( वामाक्षिस्पन्दनं सूचयित्वा ।) आः, ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावहन्ति । ( सावष्टम्भम् । ) भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु ? गीतश्चायमर्थोऽङ्गिरसा ।

  ग्रहाणां चरितं स्वप्नोऽनिमित्तौत्पातिकं तथा ।
  फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥ १५ ॥

तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।

 भानुमती--हला सुवअणे ! पेक्ख दाव उदअगिरिसिहरन्तरविमुक्करहवरो विअलन्तसंझाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिवसणाहो । ( हला सुवदने ; पश्य तावदुदयगिरिशिखरान्तरविमुक्तरथवरो विगलत्संध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः । )

 सखी--सहि ! साणिदकणअपत्तसीरसेण लदाजालन्तरापडिदकिरणनिवहेण पिञ्जरिदोज्जाणभूमिमाओ पूरिदप्पडिण्णो विअ रिउदुप्पेक्खणिज्जो जादो भअवं सहस्सकिरणो । ता समओ दे कुसुमचन्दणगब्भेण अग्घेण पज्जुवठ्ठादुम् । ( सखि ! शाणितकनकपत्रसदृशेन लताजालान्तरापतितकिरणनिवहेन पिञ्जिरितीद्यानभूमिभागः पूरितप्रतिज्ञ इव रिपुदुःप्रेक्षणीयो जातो भगवान्सहस्रकिरणः । तत्समयस्ते कुसुमचन्दनगर्भेणार्घ्येण पर्युपस्थातुम् । )

 भानुमती--हञ्जे तरलिए ! उवणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सुवरिअं णिव्वट्टेमि । ( हञ्जे तरलिके ! उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।)

 चैटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति ) ( इति निष्क्रान्ता ।)

 राजा--अयमेव साधुतरोऽवसरः समीपमुपगन्तुं देव्याः ।

( प्रविश्य । )

 चेटी--देवि ! एदं अग्घभाअणम् । ता निव्वट्टीअदु भअवदो सहस्सरस्सिणो सवरिआ । ( देवि ! एतदर्घ्यभाजनम् । तन्निर्वर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।)

( राजोपसृत्य संशया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति ।)

 सखी--( स्वगतम् ) कहं महाराओ समाअदो । हन्त ! किदो से पिअसहीए णिअमभङ्गो रण्णा । ( कथं महाराजः समागतः । हन्त, कृतोऽस्याः प्रियसख्या नियमभङ्गो राज्ञा । )