पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
प्रथमोऽङ्कः ।

आर्य मैत्रेय ! किमिदानीमध्यवस्यति गुरुः ?

 कञ्चुकी--स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।

( इति निष्क्रान्तः ।)

( नेपथ्ये । कलकलानन्तरम् । )

 भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च, शृण्वन्तु भवन्तः ।

  यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
   यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
  तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः
   क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ २४ ॥

 भीमसेनः--( आकर्ण्य । सहर्षम् । ) जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।

 द्रौपदी--णाह ! किं दाणीं एसो पलअजलहरत्थणिमंसलो क्खणे क्खणे समरदुन्दुही ताडीअदि ?(नाथ ! किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते? )

 भीमसेनः--देवि ! किमन्यत् ? यज्ञ: प्रवर्तते ।

 द्रौपदी--( सविस्मयम् )को एसो जण्णो ( क एष यज्ञः ? )

 भीमसेनः--रणयज्ञः । तथाहि ।

  चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः
   सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
  कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
   राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ २५ ॥

 सहदेवः--आर्य ! गच्छामो वयमिदानीं गुरुजनानुज्ञाता विक्रमानुरूपमाचरितुम् ।

 भीमसेनः--वत्स ! एते वयमुद्यता एवार्यस्यानुज्ञामनुष्ठातुम् । (उत्थाय) देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय ।

 द्रोपदी--( बाष्पं धारयन्ती ।) णाह, असुरसमराहिमुहस्स हरिणो विअमङ्गलं तुह्माणं होदु । जं च अम्बा कुन्दी आसासदि तं तुह्माणं विअ,