पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
वेणीसंहारे

 भीमसेनः--( सोपालम्भम् ।) न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । संधेयास्ते भ्रातरो युष्माकम् ।

 सहदेवः--(सरोषम् ) आर्य !

धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे ।
राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ ९ ॥

 भीमसेनः-–एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।

प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि-
र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासंधस्योरःस्थलमिव विरूढं पुनरपि
क्रुधा संधिं भीमो विघटयति यूयं घटयत ॥ १० ॥

 सहदेवः--( सानुनथम् ।) आर्य, एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।

 भीमसेनः--किं नाम, कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति ? पश्य ।

तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं ।
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ११ ॥

 तत्सहदेव ! निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम् ।

 सहदेवः-–आर्य ! किमिति ?

 भीमसेनः--

युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥

[ इत्युद्धतं परिक्रामति ।]

 सहदेवः--(तमेवानुगच्छन्नात्मगतम् ।) अये कथमार्यः पाञ्चाल्याश्चतुःशालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । [ इति स्थितः ।]