वितानेष्वप्येवं तव मम च सोमे विधिरभू- |
कृष्णे ! त्वमपि देहि सलिलाञ्जालिम् ।
द्रौपदी--हञ्जे बुद्धिमदिए ! उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमतिके, उपनय मे सलिलम् ।)
( चेटी तथा करोति )
द्रौपदी--(उपसृत्य जलाञ्जलिं पूरयित्वा ) महाराअ ! कस्स सलिलं देह्मि । ( महाराज ! कस्य सलिलं ददामि )
युधिष्ठिरः--
तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् । |
द्रौपदी--णाह भीमसेण ! परिअणोवणीदं उदअं सग्गगदस्स दे पादोदअं होदुएदं । ( नाथ भीमसेन ! परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवत्येतत् ।)
युधिष्ठिरः--फाल्गुनाग्रज !
असमाप्तप्रतिज्ञेऽस्तं गते त्वयि महाभुजे । |
द्रौपदी--उठ्ठेहि महाराअ ! दूरं गच्छदि दे भादा । ( उत्तिष्ठ महाराज ! दूरं गच्छति ते भ्राता ।)
युधिष्ठिरः--( दक्षिणाक्षिस्पंदनं सूचयित्वा ) पाञ्चालि ! निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति ।
द्रौपदी--महाराअ ! सुनिमित्तं होदु । ( महाराज ! सुनिमित्तं भवतु )
( नेपथ्ये कलकलः)
( प्रविश्य संभ्रांतः ।)
कंचुकी--परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुछ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।