पृष्ठम्:वृत्तरत्नाकरम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वित्राः शब्दाः । अयि ! लख्छन्दच्छन्दशनार्थिनः ! कवितोदन्तभूमिभाषा नुभवभव्यमतयः ! सूरयः । जानन्त्येव श्रीमन्तः यत् वैदिकलौकिक पद्यकाव्यविज्ञानाय छन्दःशास्रस्य कियती अपेक्षा चर्तत इति । शिक्षाकारोऽप्याह-छन्दः पादौ तु वेदस्य' इति । तत्र वैदिक लौकिकसर्वसाधारणोपयोगीनि पिङ्गलाद्याचार्यप्रणीतानि सूत्राणि सन्ति, परं केवलं लौकिकच्छन्दोशनार्थिनां कृते सरनोपायेन यथा आशु बोधः स्यादित्यालोच्य प्राकेदारनाथभट्टी वृत्तरत्नाकरं नाम छन्दग्रन्थं प्रणिनाय यदनेकेषां मलिनाथप्रभृतीनामपि लौकिक- काध्यव्याख्यातृणां तत्र २ छन्दःपरिचयप्रकाशने उपजीव्यमासी दिति नात्र विचदनीथं कस्यापि । अस्योपरि नारायणभस्याति- विपुला सर्घटीकामूर्धाभिषिक्तो गम्भीशौ च टीका वर्तते, अन्या अपि चाऽधुनिकपण्डितवर्युः प्रणीताः सन्ति, भविष्यन्ति वा, तासां गुणदोषविवेचनं नास्माकं कृत्यम्, किन्तु सर्वथा छाप्रयोधसौकर्याय बद्धपरिकरेण मयापि रप्रभा।' नाम टीका रचिता । याऽति सरला सक्षिप्त पूर्णमूलार्थलायनक्षमा वर्तते । यद्यपि मूलग्रन्थो लक्ष्यलक्षणरूपः, तथापि मया बालव्युत्पतिसौकर्यकरणाय प्रायोऽ न्यान्यपि उदाहरणानि सहीनानि । क्कचित्र स्वयं रचयित्वा प्रकाशितानि येन छन्दोज्ञानार्थिनो लक्ष्याम्तरेऽपि लक्षणयोजनीतिं सुस्पष्टमधिगुच्छेयुः । विषमस्थलार्थबोधसुकरतायै च अस्या रत्न- प्रभायाः ‘सौभग्यधत' नाम विनिमपि च रचयित्वाऽधो योजितवानस्मि, किन्तु महदिदं हर्षस्थानं छात्राणां यत् प्रायः सार दृष्टमनुरुध्य भापाटीकाऽपि सदैव निवेशिता । क्कचित् २ प्रश्नः अपि नियोजिता, उतरसङ्केतश्च छनः, अन्ते च सकलमझकरण- रीतिस्त्रं प्रकाशयम् । सेयं भवसमुपकाराय कीदृशी संवृतेति प्रन्थान्तराणि इमां च स्खपाचौं स्थापयित्वा स्वयं भघन्त स्तोलयन्तु, मया नात्र स्वमुख किमपि वचनीयम् । यथामति यथाऽवकाशं गूफशोधनमप्यकार्षम्, तथापि मनुष्यभावसुलभत्रुटिभावात् य यथा भवतां क्षतिः प्रतीयेश तरुच्छोधयम्, कृपया माश्च वयन्तु यदहमग्रिमे संस्करणे तसस्थ विधास्यामीति सानुनयमभ्यर्थयते विदुषामनुचरः नृसिंहदेवः