सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 38 ) एतत्कल्पितेन अनेकत्वेनमपि तस्य नास्ति सम्बन्धः । न हि प्रकृते एवं सम्भवति । ब्रह्म यद् सर्वव्यवहारातीतं अपरिणतमवतिष्ठते, कोऽन्यो ऽस्ति यस्याविद्यया तस्मिन् नामरूपलक्षणरूपभेदः कथ्यते । अन्यस्य सत्स्त्रे अद्वैतभङ्गः । असत्त्वे नामरूपव्यवहार एव न स्यात् । ब्रह्मव स्वगत्याऽविद्यया विविधभेदवत्वेन स्त्रात्मानं पश्यतीति चेत् पारमार्थिक रूपेणावस्थानप्रतिज्ञा परित्यक्ता स्यात् । अतो दैतगोदृष्टान्तैः अर्धेतो पपानं न युक्तम् । उपपन्नत्वाद् हृष्टन्तो युद्धमारोहति । न तु दष्ट न्ति .म् । वपम्यात् । अनुपपन्नत्वात् । अतो न केनचित् सहृदयं अद्भ तिना भवतुं शक्यम् । सङ्केतमात्रेण अद्वैतिनः अद्वैतमाद्रियन्त इति प्रकारान्तरासम्भवेनाध्यवसीयत । वस्तुस्थितेरीदृशात् अस्थाने अस्मत्सिद्धान्तदूषणे संरम्भातिश यभाजोऽब्रेतिनः परावृत्य स्वात्मानं यथा पश्येयुः तथाऽस्मभिरपि किञ्जित् कर्तुमुचितामिति जातमतयः कालतः शतदूषण्यपेक्षयाऽर्वाचीनत्वेऽपि विशिष्टाद्वैते तस्या यत् स्थानं तदेव स्थानं अद्वैते आतस्थुप अदैतसि- द्विमादाय विमर्श कर्तुं निरचिनुम । अदैतसिद्धिकारो मधुसूदनसरस्वती सर्वशास्त्रज्ञः प्रौढपाण्डित्यः वहुद्रष्टा ग्रन्थले खाने पटिष्ठः। ततः प्राक्तनेषु अद्वैतग्रन्थेषु यो यावान् सारांशः तस्य सर्वस्य अद्वैतसिद्धौ अनेन निबद्धत्वात् तेषां परिशीलन- प्रयासो मुधेति ततो वयमुदास्महे । निपुणोऽषि उदारप्रकृतिरप्ययं मत- स्यात्यन्तदुर्बलत्वात् तत्र तत्र अगत्या दुबलान् अलुनधि प्रतिवादान् प्रपञ्चयति । अत्रैते ब्रह्मण एव संसारित्वं अपरिहार्यम् । तन ब्रह्माभाव प्रसङ्गश्च । अथापि इदमङ्गोकर्तुं नैच्छद् भाष्यकार इति पूर्वं प्रादर्श याम । सिद्धकारः पुनः तदुभयमङ्गीकुर्वन् स्पष्टमेवाह 'अविद्यावशात् ब्रहैव एकं ससरत । स एव जीवः । तस्यैव प्रति- शरीरं अहमित्यादिबुद्धिः।”