पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ विशिष्टाद्वैतसिद्धिः [३६] ग्रहाच्च । पाद्मोत्तरखण्डस्य २३५. २३६ अध्यायौ इह पठितव्यौ 1 २३६ अध्यायस्थाः केचन श्लोका उदाहियन्ते - मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमुच्यते । मयैव कथ्यते देवि कलौ ब्राह्मणरूपिणा || अपार्थं श्रुतिवाक्यानां दर्शयलोकगर्हितम् । कर्मस्वरूपत्याज्यत्वं यत्र वै प्रतिपाद्यते ॥ परेशजीवयोरैक् मयाऽत्र प्रतिपाद्यते । ब्रह्मणोऽत्र परं रूपं निर्गुणं वक्ष्यते मया ॥ सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे । वेदार्थवन्महाशास्त्रं मायाबादमवैदिकम् || मयैव वदयते देवि जगतां नाशकारणम् || - ( कलकत्ता - मनसुख राय मोर - प्रकटिताया: गुरुमण्डलग्रन्थ- -मालाया: अष्टादशे पुष्पे ८१६ पुटे । ) ३६. विप्रलम्भपदवीवैदेशिकैर्देशिकैः निराडम्बरसमज सार्थवाक्य- विन्यासतत्परैः प्रतिपादिते वस्तुतत्त्वे दुर्विमर्शकारिणा शास्त्रिणा, परिपूर्त धान्यराशौ अवकर राशिमभिवर्षता दुर्वातेनेव जातां अशुद्धिं परिजिही- घंता इदं सानुबन्धं शतपर्व-व्यलेखि | मन्ये एतदवलोकनं शास्त्रियो धियं प्रसन्नां करिष्यति ।