४३८ विशिष्टाद्वैत सिद्धिः [ २६ : ३० स साक्षाद् वेदव्याख्याननमन्यत् कृतवानिति न ज्ञायते । श्रौतसूत्र- भाष्यमेव बहूनां वेदभागानां विवरणात्मकतवा वेद्व्याख्यानमित्युक्त- मिति ग्रहीतुमुचितम । भारुचिरपि वेदव्याख्यानकार नेति भाति । वेदव्याख्यातारः सर्वे वेदान्तविद एवं आसन् । वेद्भागा अपिहि बहवः वेदान्तार्थगर्भा भवन्ति । व्याख्यातृभिः वेदान्तबोध्या अर्थास्तत्र प्रतिपादनीया भवन्ति । तस्माद् वेदान्तव्याख्यानानीव वेद- व्याख्यानान्यपि तत्त्वं जिज्ञासमानानां उपकारकाणि उपजीव्यानि च भवन्ति । अद्वैतप्रादुर्भावात् प्राक् वेदान्तदर्शनं विप्रतिपत्तिरहितं एक- रूपमासीत् । पदार्थ वाक्यार्थविपये भेदः कश्चित् कामं स्थितः स्यात् । तत्त्वहित पुरुषार्थेषु तु एकरूपा सर्वेषां मतिः | विधिविधेयस्तञ्च वेद इत्युक्तरीत्या ब्रह्मसूत्राणामपि वेदान्तेऽन्तर्भावात् तेषां प्रथमत्र्याख्यानका- रात् भगवद्द्बोधायनात प्रभृति प्रवृत्तः वेदान्तदर्शनसम्प्रदाय: टङ्कद्रमिडा- दिगुरुपरम्परया चिरमनुवृत्तः क्वापि सन्तस्थे । ततः श्रीशठकोपमुनि- द्वारा पुनः प्रावर्तत । एतत्कृतप्रबन्धानां द्राविडभाषारूपत्वेऽपि तैः वाचा च तेनोपदिष्टार्थाः चिरन्तनसम्प्रदायप्राप्ता वेदान्तार्था एव । मनागपि भेदो नातीत्। ‘एवमेकरूपतया अनुवृत्तं वेदान्तदर्शनं शांकराद्वैतप्रादुर्भा- वानन्तरं अत्यन्तलोपावस्थासक्तिमलभत । तदात्वे यामुनाचार्याः सिद्धित्रयादिग्रन्थकरणेन प्रवचनेन च पुनः प्राचीनसम्प्रदायप्रतिष्ठापने श्रयन्त | तेषां प्रशिष्या भगवद्रामानुजमुनयश्चश्रीभाष्यादिप्रणयनेन तं प्रतिष्ठापयन्ति स्म । तस्माद् विशिष्टाद्वैतमिति पश्चाल्लब्धसंज्ञमिदं वेदान्तदर्शनं चिरन्तनमिति ज्ञेयम् । २६--३०. भग्वद्वोधायन तत्कृतवृत्तिग्रन्थादिविपये शास्त्रिया कृताः कुत्सितविपरीतवादाः सर्वे विध्वस्ताः । ३१. मीमांसायां देवताकाण्डा नाम कश्चिद् भाग आसीदिति वेदान्तग्रन्थकारैः प्रायः सर्वैः तत्रिर्देशात अवगम्यते । तथा सङ्घकाण्ड
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५१
दिखावट