सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ : २० : २१ ] अनुबन्धः २. ४३५ इति हि अस्य वाक्यस्यार्थः । सः स्वस्य आत्मेत्युक्ते स्वयं तस्य शरीर- मित्यर्थाल्लभ्यते । अभेदस्य तु कः प्रसङ्गः | 'सर्वस्य तन्निष्पत्तरिति हेतु - निर्देशाच्च भेद एव प्रस्फु | अद्वैतसम्प्रदायवरुद्धं चेदं परमात्मनः जीवा भित्रतया चिन्तनाभिधानम् । यदाह श्रीशङ्करः 'न होश्वरस्य संसा- र्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः । किं तर्हि ? संसारिणः संसा- रित्वापोहेन ईश्वरात्मत्वं प्रतिपिवाद यिषित मिति ।" इति आत्मेति तूपगच्छन्तीत्यत्र | १६. सगुणपराणि ब्रह्मनन्दिवाक्यानि बहूनि सन्ति, उपलभ्यन्ते चेति सम्प्रतिपन्नम | एकमपि तु निर्गुणपरं वाक्यं नास्ति । न केनचिदु- दाहृतम् । तत्र 'अद्वैतभिरनूदितं निर्गुणपरवाक्यभाष्यग्रन्धवाक्यजातन्तु' इत्यादिलेखनं विस्मयाय कल्पते । निर्गुणगन्धोऽपि नाघातां वाक्यभा- ष्यकाराभ्याम् | निर्गुणवादस्य अत्यन्तमर्वाचीनत्वात् । २०. 'अञ्जसैव विश्वसृजो रूपम् इति सिद्धान्त भाष्यम् । इतः पूर्वं पूवनक्षनिराकरणपरं भाष्यम् – 'न कार्यं न वा मायाभयम्' इति । 'तस्य च रूपस्य अनित्यतादि वाक्यकारेणैव प्रतिषिद्धम् इति हि वेदार्थसंग्रहश्रीसुतिः। 'तद्रूपस्य कार्यत्वं मायामयत्वं वेति....निरसनीयं मतमुपन्यस्य' इति सारश्रीसूक्तिञ्च | एवं च 'न कार्यं न वा मायामयं, अञ्जव विश्वसृजो रूपम इत्येव भाष्यग्रन्थ इति स्पष्टम् । अत्र ‘न मायामयम्' इत्यस्य कल्पितत्वकल्पनं कल्पकस्य अल्पतां कल्पयति । २१. 'नमः प्रवर गुणैकास्पदाय' इत्यादि द्रमिडभाष्यस्थमेव मङ्ग- 'लम् । इमिडभाष्यकारभक्तः मांमांसान्यायकोशकारः तदेव वाक्यरूपं मङ्गलं तत उद्धृत्य स्वग्रन्यारम्भे निवेशयामास । एतल्लेखकां वा कश्चित् । भास्करादनन्तरकालिकेषु वेदान्त ग्रन्थकारेषु विना भगवद्रा- मानुजं अन्यो यः कोऽपि वाक्यग्रन्थं वा भाष्यग्रन्थं वा नैव अवलोकि तवानिति निश्चोयते ।