६:१०:११:१२:१३:१४ अनुबन्धः २. ४३३ एवमप्यत्र सऋशभराच्न पूर्वपक्षत्वं वदन्ति । अत्र यदुच्यते योगापेक्षया रूढ़िपूर्वकलक्षणा वरमिति तन्न | कपिशब्दरूढ्यनुसारेण कप्यासशब्देन वानरजवनोपस्थितौ समभिव्यहृत पुण्डरीकपदार्थे तद्नन्वयान्, आसशब्देन तद्न्वयोग्ये क्षिप्तं विकासितमित्यर्थे शक्त्या उपस्थिने लक्षणया सदृशग्रहणायोगात् तदानुगण्येन कपिशब्दस्य यौगि- कादित्यपरत्वाश्रयणस्यैव युक्तत्वात् । योगापेक्षया रूढिपूर्वकलक्षणा वमिति च नास्ति। न हि शूद्रशब्दस्य स्वघटितचातुर्वर्ण्यघटकत्वेन क्षत्रिये लक्षणा आश्रीयते । अनि तु यौगिकत्वमेव | शुगस्येति सूत्र- करणात् । कपिपदस्य यौगिकार्थेषु क्वापि अल्मपि क्लिष्टत्वं नास्ति | ६. स्याद्र् पं कृतऋभनुग्रहार्थं तच्चेतसामैश्वर्यात्' । 'रूपं वाऽती- न्द्रियमन्तः क्रणप्रत्यक्षं तन्निर्देशान् ।' इति ब्रह्मनन्दिवाक्यद्वयं भगव द्रामानुजेनांदाहृतत्वादेव ज्ञायते । अत्र वाक्यद्वये प्रथमं पूर्वपक्षात्कम् | अत एवात्र द्रमिडभाष्यम् - 'नानित्य, न मायामयम् । अञ्ज सैव विश्व- सृजो रूपम् । तत्तु न चक्षुषा ब्राह्यम् | मनसा त्वकलुषेण साधनन्तरवताः गृह्यते ।” इति । कार्याधिकरण इवात्र वाक्ययन्थेऽपि पूर्वपक्षमेव स्वमतानु- रोधेन सिद्धान्तं करोति श्रीशङ्करः । तद् विपरीताथवर्णन मिति प्रदर्शना- यैव भगवद्रामानुजमुनिः वाक्यभाष्यग्रन्थमुपन्यस्य पूर्वोत्तरपक्षी विभज्य दर्शयति । बुद्धिपूर्वं श्रीशङ्कर इह वाक्यभाव्यग्रन्थविरुद्धं भाषने । १०. २१. "रूपं वा” इति वाक्यं 'रूपं च ' इति विपर्यस्यति शास्त्री | माहसमेतत् । वितत्येदं निरूपितं प्राक्त ने पञ्चत्रिंशे पर्वण | १२–१४. 'यथाभूतवादि हि शास्त्रम' इति द्रमिडाचार्योतो यथा- भूतमिति पारमार्थिकमित्येवार्थः । लोकव्युत्पत्तिसिद्धत्वात् । व्यावहारिक- मित्यपि तदेकार्थम् । अपारमार्थिकस्य व्यवहारानुयुक्तत्वात् । व्यावहा- रिक अपारमार्थिकत्यायोगात् । अद्वैतिभिः क्रियमाणस्य व्यावहारि-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४६
दिखावट